Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha

View full book text
Previous | Next

Page 258
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३ स्यान्नाशि नित्यं सदृशं विरूपं ___ वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्र सुधोद्गतोद्गारपरम्परेयम् ॥२५॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिन ! शासनं ते ॥२६॥ नैकान्तवादे सुखदुःखभोगौ __ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं परैविलुप्तं जगदप्यशेषम् ।।२७।। सदेव सत् स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणः । यथार्थदर्शी तु नयप्रमाण पथेन दुर्नीतिपथं त्वमास्थः ॥२८॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षड्जीवकायं त्वमनन्तसङ्ख्य माख्यस्तथा नाथ ! यथा न दोषः ॥२९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262