________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥ ८ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् ।
मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ।। ९ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा ।
पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ।। १० गर्भनिभिन्नबीजार्थो विलोभनकृतोऽपि वा ।
क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः॥ ११ समानयनमर्थानां मुखाद्यानां सबीजिनाम् ।
नानाभावोत्तराणां यद्भवेनिर्वहणं तु तत् ।। १२ नायकाख्यातस्ववृत्ताभाव्यर्थशंसिवक्त्रादिः सो
च्छ्वासा संस्कृता गद्ययुक्ताख्यायिका। १३ धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा १४ गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः । १५ अनिबद्धं मुक्तकादि । १६ एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषक
कलापकानि। १७ पञ्चादिभिश्चतुर्दशान्तैः कुलकम् ।
इति अष्टमोऽध्यायः।
कथा।
For Private and Personal Use Only