________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
६ इष्टार्थसिद्ध्यै दृष्टान्तो निदर्शनम् ।
७ प्रकृताप्रकृतानां धर्मैक्यं दीपकम् । ८ सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः ।
९ व्यङ्गयस्योक्तिः पर्यायोक्तम् ।
१० विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः ।
११ विवक्षितस्य निषेध इवोपमानस्याऽऽक्षेपश्चाक्षेपः । १२ अर्थानां विरोधाभासो विरोधः ।
१३ सहार्थबलाद्धर्मस्यान्वयः सहोक्तिः ।
१४ श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । १५ स्वभावाख्यानं जातिः ।
१६ स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः । १७ वाक्यस्यार्थनेकार्थता श्लेषः ।
१८ उत्कर्षापकर्ष हेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः ।
१९ विशेषस्य सामान्येन साधर्म्यवैधम्र्म्याभ्यां समर्थनमर्थान्तरन्यासः । २० स्तुत्यै संशयोक्तिः ससंदेहः ।
For Private and Personal Use Only