________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२६
Acharya Shri Kailassagarsuri Gyanmandir
१४ तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहsप्यङ्गत्वे रसोपकारिणः ।
१५ मुख्यगौणलक्ष्यव्यङ्ग्यार्थ भेदान्मुख्यगौणलक्षकव्यञ्जकाः शब्दाः । १६ साक्षात्संकेतविषयो मुख्यः ।
१७ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः ।
१८ मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः ।
१९ मुख्याद्व्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः ।
२० मुख्याद्यास्तच्छक्तयः ।
२१ वऋादिवैशिष्ट्यादर्थस्यापि व्यञ्जकत्वम् । २२ व्यङ्ग्यः शब्दार्थशक्तिमूलः ।
२३ नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः ।
२४ वस्त्वलंकारयोस्तद्व्यञ्जकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि । २५ रसादिश्च ।
इति प्रथमोऽध्यायः ।
For Private and Personal Use Only