________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री काव्यानुशासनसूत्राणि ।
१ अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनीं वाचमुपास्महे ||१|| २ शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः । तासामिदानीं काव्यखं यथावदनुशिष्यते ||२|| ३ काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । ४ प्रतिभाऽस्य हेतुः ।
५ सावरणक्षयोपशममात्रात्सहजा ।
६ मत्रापाधिकी।
७ व्युत्पत्यभ्यासाभ्यां संस्कार्या ।
८ लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः । ९ काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः । १० सतोऽप्यनिबन्धोऽसतोऽपि निबन्धो नियम छायाद्युपजीवनादयश्च शिक्षाः ।
११ अदोषौ सगुणौ सालंकारौ च शब्दार्थौ काव्यम् । १२ रसस्योत्कर्षापकर्ष हेतू गुणदोषौ भक्त्या शब्दार्थयोः । १३ अङ्गाश्रिता अलंकाराः ।
For Private and Personal Use Only