Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ओ
૨૫૧
ये श्रीफतेपुरं प्राप्ताः श्रीअकबरशाहिना। आहूता वत्सरे नन्दानल शशभृन्मिते (१६३९) ॥९॥ निजाशेषेषु देशेषु शाहिना तेन घोषितः । पाण्मासिको यदुक्त्योचैरमारिपटहः पटुः ॥१०॥ स श्रीशाहिः स्वकीयेवु मण्डलेष्वखिलेष्वपि । मृतस्वं जीजिआख्यं च करं यद्वचनै हौ ॥११॥ दुस्त्यजं तत्करं हित्वा तीर्थ शत्रुजयाभिधम् । जैनसाद्यगिरा चक्रे माशक्रेणामुना पुनः ॥१२॥
ऋषीश्रीमेघजीमुख्या लुम्पाका मतमात्मनः । हित्वा यचरणद्वन्द्वं भेजुर्मुडा इवाम्बुजम् ॥१३॥
तत्पट्टमब्धिमिवरम्यतमं सृजन्तः
स्तोमैर्गवां सकलसन्तमसं हरन्तः । कामोलसत्कुवलयप्रणया जयन्ति
स्फूर्जत्कला विजयसेनमुनीन्द्रचन्द्राः ॥१४॥
यत्प्रतापस्य माहाल्यं वर्ण्यते किमितः परम् । अस्वप्नाश्चक्रिरे येन जीवन्तोऽपि हि वादिनः ॥१५॥
सुन्दरादरमाहूतैः श्रीअकबरभूभुजा । द्राग् यैरलंकृतं लाभपुरं पद्ममिवालिभिः ॥१६॥
श्रीअकब्बरभूपस्य सभासीमंतिनीहृदि । यत्कीर्तिमौक्तिकीभूता वादिवृन्दजयाब्धिजा ॥१७॥
For Private and Personal Use Only

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329