Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ओ
૨૫૭
श्रीवीरस्य त्रयस्त्रिंशदङ्गुला मूर्तिरुत्तमा। श्रीशान्तेश्च सप्तविंशत्यङ्गुला भाति भूगृहे ॥५५॥
यत्रोद्धता धराधाम्नि शोभन्ते दश दन्तिनः । युगपजिनसेवायै दिशामीशा इवाययुः ॥५६॥
यत्र भूमिगृहे भान्ति स्पष्टमष्ट मृगारयः । भक्तिभाजामष्टकर्मगजान् हन्तुमिवोत्सुकाः ॥५७॥
श्रीस्तम्भतीर्थपूर्भूमिभामिनीभालभूषणम् । चैत्यं चिन्तामणेर्विक्ष्य विस्मयः कस्य नाभवत् ॥५८॥
एतौ नितांतमतनु तनुतः प्रकाशं
यावत् स्वयं सुमनसां पथि पुष्पदन्तौ। .. श्रीस्तम्भतीर्थधरणीरमणीललामं
तावचिरं जयति चैत्यमिदं मनोज्ञम् ॥५९॥ श्रीलाभविजयपण्डिततिलकैः समशोधि बुद्धिधनधुर्यैः । लिखिता च कीर्तिविजयाभिधेन गुरुबान्धवेन मुदा ॥६॥
वणिनीव गुणाकीर्णा सदलङ्कृतिवृत्तिभाग् । एषा प्रशस्तिरुत्कीर्णा श्रीधरेण सुशिल्पिना ॥६१॥ श्रीकमलविजयकोविदशिशुना विबुधेन हेमविजयेन ।
रचिता प्रशस्तिरेषा कनीव सदलङ्कृतिर्जयति ॥६२॥ इति श्रीपरीक्षक प्रधान प० वजिआ प० राजिआनामसहोदरनिर्मापितश्रीचिन्तामणिपार्थजिनपुङ्गवप्रासादप्रशस्तिः सम्पूर्णा । भद्रभूयात् ॥
For Private and Personal Use Only

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329