Book Title: Khambhatno Itihas
Author(s): Ratnamanirao Bhimrao
Publisher: Dilavarjung Nawab Mirza
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
परिशिष्ट ओ भ्राताऽस्य जगतीमान्यः साईयाह्वो गुणाकरः । पुत्रपौत्रैर्युतो धन्यः कामं जीयाज्छतं समाः ॥१२॥ धनदसुतो बलराजो लीलादेव्यास्तु जीवनं जयतात। यं दधती निजगर्भे शोभननामा रमासमा जगति ॥१३॥ नप्तारो विजयन्तां गुणनिधयः श्रीनृसिंहदासाद्याः।
अवरः सुखदासाह्वो जनिष्यमाणाः परे पुत्राः ॥१४॥ श्रीमन्नृपविक्रमार्कसमयातीतसंवत् १५३९ वर्षे भाद्रपदसुदि ८ गुरौ मेहरश्रीमुकुन्दसुतमेहरश्रीधनाकेन सकललोकहितार्थं इयं वापी कारिता, श्रीरस्तु। प्रशस्तिकारकवाचकेभ्यः ॥श्रीः॥ तथा सूत्रधारराजासुतवना सूत्रधारदेवदाससुतपेता, एताभ्यां रचिता।
याक्चेन्द्रशशाङ्को यावन्मेमहागिरिः स्थायी। अचला यावद्वसुधा तावन्नन्दन्त्वियं वापी ॥१५॥
॥ॐ॥ श्रीगणेशाय नमः ॥ दत्तेऽश्वगजश्रेणिसम्पत्तिं श्रीगजाननः । सन्तुष्टः सिद्धिकामान् वः करोतु करुणानिधिः ॥१॥ लक्ष्मीजानिपदाम्भोजं नत्वाऽभीष्टार्थसिद्धिदम् । प्रशस्तिरचनां कुर्वे वाप्याः श्रीधनदस्य च ॥२॥ जगन्मङलरूपेह नागवल्लीति विश्रुता। तदाराधनतो वर्णस्ताम्बूलीति प्रथामगात् ॥३॥ तत्र प्रादुर्भवद्वंशे सोहडाविजलात्मजः। मुक्ता मुक्तिपुरी येन काशिका कारिका धनैः ॥४॥
For Private and Personal Use Only

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329