Book Title: Jayantiprakaranvrutti
Author(s): Malayprabhsuri, Chandanbalashreeji
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 419
________________ ३८२ जयन्तीप्रकरणवृत्तिः । गाथा २५।२६ 5 तथा रसनेन्द्रियमपि बुद्धिमता जेतव्यम्, अजिते हि अस्मिन् रसगृद्धिदोषोदये विजृम्भन्ते तमांसि, नोल्लसन्ति भक्ष्याभक्ष्यविवेकमहांसि, पसरन्ति न क्षत्रतेजांसि, प्रचरन्ति दुरव्यवसायरक्षांसि । किञ्च रसनेन्द्रियलाम्पट्ये, मत्स्यो विचरन्नगाधजलमध्ये । गलनिहितमांसलुब्धो, मुग्धो मृत्योर्मुखं विशति ॥१॥ अन्यच्च-- मद्यपाने सक्तः प्राणी विमुढचेतस्कः । गम्यागम्याज्ञानाद् भ्राम्यति संसारकन्तारे ॥२॥ मधुगृद्ध्या मधुजालकचतुरिन्द्रियजीवराशिघातेन । समुपार्जितपापभरा नरकान्तर्यान्ति पापनराः ॥३॥ मद्यमांसे मधुनि च नवनीते संसजन्त्यऽसङ्ख्याताः । तद्वर्णस्पर्शरसा जीवा नश्यन्ति तद्भोगे ॥४॥ तस्मात् रसगृद्धिरसौ, जीवदयादृष्टिकृष्टिपटिमानम् । बिभ्राणा गृध्रीव प्रयत्नतो दूरतः कार्या ॥५॥ किञ्च-सर्वाणि अपि दानानि, अखिलानि अपि तीर्थकर्कशतपांसि, एकस्य मांसविरतिव्रतस्य नांशेन तुल्यानि, तथा मांसरसास्वादनव्यसनपरशुप्रहारछिन्नमूलप्रबन्धप्रकृष्टकरूपापरिणामद्रुमतया महामांसमप्यश्नानाः प्राणिनः पार्थिवादिपदप्रभ्रष्टाः राक्षसीभूताः परलोके नरकोदरप्रविष्टा दुरन्तदुःखानि अनुभवन्ति सोदासनरेन्द्रवत् । 20 तथाहि 8 खिइपइट्ठियनयरे सोदासो नाम नरवई हुत्था । इहलोएप्पडिबद्धो रसणिन्दियविसयरसगिद्धो ॥१॥ अह सन्ति तत्थ जिणमयपभावणाकरणमाणसा सड्ढा । धम्माधम्मावियड्ढा विसुद्धसद्धा गुणधणड्ढा ॥२॥ अह तेहिं सावएहिं जिणिन्दभवणम्मि गुरुपबन्धेण । आढत्ता किल जत्ता करुणासरणिक्कचित्तेहिं ॥३॥ कोसल्लियं महग्धं गणिऊणं तो नरिन्दपयमले । गच्छन्ति सावया ते कुणन्ति विन्नत्तियं एवं ॥४॥ 15 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462