Book Title: Jayantiprakaranvrutti
Author(s): Malayprabhsuri, Chandanbalashreeji
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 431
________________ ग्रन्थकारस्य प्रशस्तिः आमूलान् मधुरोऽत्र गच्छगहने तापापहारप्रभुः, नित्यानन्दसुपर्वभिः परिचितः स्वर्गश्रिया राजितः । प्राग्वाटान्वय इक्षुवाटसुभगो वृद्धिं परां प्रापितो, यैः पूज्यैः संवररसधाराध्वनाऽप्युन्नतैः ॥१॥ शिष्यप्रशिष्यैः प्रभूतैः यदीयैर्गच्छो वटो वा ववृधे प्ररोहै: । तस्मिन् बृहन्नामनि मूलकल्पाः श्रीसर्वदेवाभिधसूरयस्ते ॥२॥ बभूवुरुत्सर्पिणाधिपत्याः श्रीगौतमस्यानुकृतिं दधानाः । सत्त्वाहितस्वान्ततया प्रसिद्धसौभाग्यलक्ष्म्याऽच्युतकीर्तिभाजः ॥३॥ तत्पट्टे प्रथिते सुवर्णघटिते कल्याणकुम्भोपमाः, श्रीमन्तो जयसिंहसूरिगुरवः सिद्धान्तदुग्धार्णवाः । दत्तो यैविधिमार्गदर्शनविधावादेशदीपाङ्कुरः, शिष्याणां विनयैकतानमनसामाचार्यलक्ष्मीभृताम् ॥४॥ श्रीमच्चन्द्रकुलदयादिशिखरोत्तंसाः सुधांशुश्रियः, श्रीचन्द्रप्रभसूरयो जिनवचःक्षीरार्णवोल्लासिनः । गेहध्वान्तमपास्य भव्यकुमुदोद्बोधास्ततस्तेऽभवन्, यत्कीर्तिर्धवलीकरोति भुवनं ज्योत्स्नातुलां बिभ्रती ॥५॥ तैर्दत्तामुपलभ्य निर्मलकलां श्रीधर्मघोषप्रभुः, भास्वांस्तीव्रतपोप्रतापकलितो जज्ञे दधद्विस्मयम् । नानादृप्तकुतीथितारकरुचिव्यासप्रहाणोधतो, माद्यद्वादिकुशीलकौशिकमदोद्रेकापहारक्षमः ॥६॥ आदिष्टा जयसिंहसूरिभिरमी चात्मीयशिष्योत्तमा, विख्याता जगति क्षमाधरशिरोलङ्कारलीलास्पृशः । पूज्याः शीलगणाह्वया गणभृतो येऽखण्डवृत्तोदया, निन्युश्चन्द्र इव प्रकाशपदवी पूर्णामिमां पूर्णिमाम् ॥७॥ 15 25 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462