________________
ग्रन्थकारस्य प्रशस्तिः
आमूलान् मधुरोऽत्र गच्छगहने तापापहारप्रभुः, नित्यानन्दसुपर्वभिः परिचितः स्वर्गश्रिया राजितः । प्राग्वाटान्वय इक्षुवाटसुभगो वृद्धिं परां प्रापितो, यैः पूज्यैः संवररसधाराध्वनाऽप्युन्नतैः ॥१॥ शिष्यप्रशिष्यैः प्रभूतैः यदीयैर्गच्छो वटो वा ववृधे प्ररोहै: । तस्मिन् बृहन्नामनि मूलकल्पाः श्रीसर्वदेवाभिधसूरयस्ते ॥२॥ बभूवुरुत्सर्पिणाधिपत्याः श्रीगौतमस्यानुकृतिं दधानाः । सत्त्वाहितस्वान्ततया प्रसिद्धसौभाग्यलक्ष्म्याऽच्युतकीर्तिभाजः ॥३॥ तत्पट्टे प्रथिते सुवर्णघटिते कल्याणकुम्भोपमाः, श्रीमन्तो जयसिंहसूरिगुरवः सिद्धान्तदुग्धार्णवाः । दत्तो यैविधिमार्गदर्शनविधावादेशदीपाङ्कुरः, शिष्याणां विनयैकतानमनसामाचार्यलक्ष्मीभृताम् ॥४॥ श्रीमच्चन्द्रकुलदयादिशिखरोत्तंसाः सुधांशुश्रियः, श्रीचन्द्रप्रभसूरयो जिनवचःक्षीरार्णवोल्लासिनः । गेहध्वान्तमपास्य भव्यकुमुदोद्बोधास्ततस्तेऽभवन्, यत्कीर्तिर्धवलीकरोति भुवनं ज्योत्स्नातुलां बिभ्रती ॥५॥ तैर्दत्तामुपलभ्य निर्मलकलां श्रीधर्मघोषप्रभुः, भास्वांस्तीव्रतपोप्रतापकलितो जज्ञे दधद्विस्मयम् । नानादृप्तकुतीथितारकरुचिव्यासप्रहाणोधतो, माद्यद्वादिकुशीलकौशिकमदोद्रेकापहारक्षमः ॥६॥ आदिष्टा जयसिंहसूरिभिरमी चात्मीयशिष्योत्तमा, विख्याता जगति क्षमाधरशिरोलङ्कारलीलास्पृशः । पूज्याः शीलगणाह्वया गणभृतो येऽखण्डवृत्तोदया, निन्युश्चन्द्र इव प्रकाशपदवी पूर्णामिमां पूर्णिमाम् ॥७॥
15
25
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org