Book Title: Jayantiprakaranvrutti
Author(s): Malayprabhsuri, Chandanbalashreeji
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 434
________________ ग्रन्थलिखापयित्र्याः प्रशस्तिः दिव्यश्रीसदनं सदा क्षितिधराधारः सुपात्रास्पदं, क्षोणीमण्डलमण्डनं सुविदितः प्राग्वाटवंशोऽस्ति सः । यत्र छत्रपरम्परावति तते संप्राप्य पर्वस्थिति, जायन्तोऽद्भुतमत्र वाञ्छितफलैः सौहित्यभाजो जनाः ॥१॥ मुक्तावत्तत्र वंशे समजनि विदितो धाहडश्रेष्ठिवर्यः, सवृत्तः कान्तकान्तिः प्रवरगुणगणः प्रास्तनिःशेषदोषः । आनन्दाधायिमूर्तिः त्रिभुवनभवनोत्सङ्गरङ्गत्सुकीतिः, स्फूर्जात्पुण्यप्रबन्धोद्भववशविलसत्प्राभवस्फूतिपूर्तिः ॥२॥ नयविनयविततिविटपितसितांशुसितकीर्तिधवलितदशाशः । पुण्याचारपवित्रः तत्पुत्रो धवलनामासीत् ॥३॥ अजनीह मरुसञ्ज्ञा मरुस्थलीपायपङ्कजवनस्य । तस्य प्रवरा जाया विशुद्धशीला विगतमाया ॥४॥ तत्पुत्री ठक्कुराणी समभवदऽसमक्षान्तिविस्तीर्णशाला । नाऊनामा शशाङ्कद्युतिधवलगुणैः साधुशस्यैर्विशाला ॥५॥ धर्मनुष्ठाननिष्ठा विधिवशविकसत्कीर्तिसम्भारसारा । प्राय॑स्फू द्विवेकप्रतिहतविततोद्दामदुर्वारमारा ॥६॥ सञ्जातोऽत्रैव वंशे निरुपममहिमा भाग्यसौभाग्यभूमिः, श्रीपालष्ठक्कुराग्यः प्रथितशुचियशाः पालितप्राज्यनीतिः । दिव्यश्रीकेलिगेहं समजनि परमं मण्डनं धामलक्ष्म्याः , श्रीदेवी तस्य पत्नी विकृतिकलुषतालोलतानां सपत्नी ॥७॥ तयोः सुतः शोभनदेवनामा मुख्यो यशोदेव इति द्वितीयः । जातोऽभिजातो नृपमान्यतादिगुणैरशेषैर्भुवि सुप्रसिद्धः ॥८॥ तत्र शोभनदेवस्य ठक्कुरस्य गृहीणिद्वयं । मूहवमहणूसंज्ञं सोढूनामा सुता पुनः ॥९॥ नाऊकाया पाणिग्रहणं कृतवानऽसौ यशोदेवः । तत्रातिरत्नभूतेति रत्नदेवीति विदितेयम् ॥१०॥ या शीतेव कलौ कलङ्कविकलप्रोल्लासिशीलोज्ज्वला, धर्मानुष्ठितिनिष्ठया त्रिभुवने प्राप्तप्रतिष्ठा हि या । इतश्च Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462