________________
ग्रन्थलिखापयित्र्याः प्रशस्तिः
दिव्यश्रीसदनं सदा क्षितिधराधारः सुपात्रास्पदं, क्षोणीमण्डलमण्डनं सुविदितः प्राग्वाटवंशोऽस्ति सः । यत्र छत्रपरम्परावति तते संप्राप्य पर्वस्थिति, जायन्तोऽद्भुतमत्र वाञ्छितफलैः सौहित्यभाजो जनाः ॥१॥ मुक्तावत्तत्र वंशे समजनि विदितो धाहडश्रेष्ठिवर्यः, सवृत्तः कान्तकान्तिः प्रवरगुणगणः प्रास्तनिःशेषदोषः । आनन्दाधायिमूर्तिः त्रिभुवनभवनोत्सङ्गरङ्गत्सुकीतिः, स्फूर्जात्पुण्यप्रबन्धोद्भववशविलसत्प्राभवस्फूतिपूर्तिः ॥२॥ नयविनयविततिविटपितसितांशुसितकीर्तिधवलितदशाशः । पुण्याचारपवित्रः तत्पुत्रो धवलनामासीत् ॥३॥ अजनीह मरुसञ्ज्ञा मरुस्थलीपायपङ्कजवनस्य । तस्य प्रवरा जाया विशुद्धशीला विगतमाया ॥४॥ तत्पुत्री ठक्कुराणी समभवदऽसमक्षान्तिविस्तीर्णशाला । नाऊनामा शशाङ्कद्युतिधवलगुणैः साधुशस्यैर्विशाला ॥५॥ धर्मनुष्ठाननिष्ठा विधिवशविकसत्कीर्तिसम्भारसारा । प्राय॑स्फू द्विवेकप्रतिहतविततोद्दामदुर्वारमारा ॥६॥ सञ्जातोऽत्रैव वंशे निरुपममहिमा भाग्यसौभाग्यभूमिः, श्रीपालष्ठक्कुराग्यः प्रथितशुचियशाः पालितप्राज्यनीतिः । दिव्यश्रीकेलिगेहं समजनि परमं मण्डनं धामलक्ष्म्याः , श्रीदेवी तस्य पत्नी विकृतिकलुषतालोलतानां सपत्नी ॥७॥ तयोः सुतः शोभनदेवनामा मुख्यो यशोदेव इति द्वितीयः । जातोऽभिजातो नृपमान्यतादिगुणैरशेषैर्भुवि सुप्रसिद्धः ॥८॥ तत्र शोभनदेवस्य ठक्कुरस्य गृहीणिद्वयं । मूहवमहणूसंज्ञं सोढूनामा सुता पुनः ॥९॥ नाऊकाया पाणिग्रहणं कृतवानऽसौ यशोदेवः । तत्रातिरत्नभूतेति रत्नदेवीति विदितेयम् ॥१०॥ या शीतेव कलौ कलङ्कविकलप्रोल्लासिशीलोज्ज्वला, धर्मानुष्ठितिनिष्ठया त्रिभुवने प्राप्तप्रतिष्ठा हि या ।
इतश्च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org