________________
३९६
जयन्तीप्रकरणवृत्तिः । ग्रन्थकारस्य प्रशस्तिः हंसोऽयं गगने प्रभातसुखतः क्रीडासरस्यन्वहं, यावत् साण्डतमिस्रसैवलमलं दूरे व्युदस्य क्षणात् । धत्ते सर्वदिशां सुखाम्बुजवने सञ्चारलीलायितं, सन्तोषं सुधियां ददात्वऽविकलं तावज्जयन्तीकथा ॥१७॥ द्वादशवर्षशतेषु श्रीविक्रमतो गतेषु षष्टितमे । वर्षे ज्येष्ठे मासे श्रवणभे कृष्णपञ्चम्याम् ॥१८॥ जीवादिविषयसंशयतमोपहारैकतरणिरुचिरुचिरा । योगे चन्द्रे सिद्धा वि जयन्तीकथा रचिता ॥१९॥ मोहमहिपतिविजये चतुरङ्गबलेन शुचिगुणस्मृता । इह जगति वैजयंती जयतु जयन्तीकथा सुचिरम् ॥२०॥ मङ्गलमस्तु ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org