Book Title: Jayantiprakaranvrutti
Author(s): Malayprabhsuri, Chandanbalashreeji
Publisher: Shrutgyan Prasarak Sabha

Previous | Next

Page 435
________________ 5 10 15 20 ३९८ जयन्तीप्रकरणवृत्तिः । ग्रन्थलिखापयित्र्याः प्रशस्तिः ॥ लब्ध्याऽगण्यवरेण्यपुण्यनिवहा या चैत्यकृत्यादिभिर्नानास्थानपुरादिधार्मिकसभाप्रख्यातनामा च या ॥११॥ ज्ञानं मोहमहान्धकारदलने रत्नप्रदीपायते, ज्ञानं दुर्गतिदुर्गकूपपतने हस्तावलम्बायते । गम्भीरे भववारिधौ भवभृतां ज्ञानं सुपोतायते, ज्ञानं कामितवस्तुलाभविषये सत्कामधेनूयते ॥ १२ ॥ इत्येवं शुभदेशनां बहुविधां श्रुत्वा गुरूणां मुखा - देषां दोषपराङ्गमुखी जनमते रक्ता विरक्ता भवे । सप्तक्षेत्रनिजार्थबीजवपनासक्ता विशेषात्पुननाना पुस्तकलेखने कृतमतिर्नारिह श्राविका ॥१३॥ इतः चतुर्भिस्सम्बन्धः श्रीशीलगणसूरीशपूज्यपट्टप्रतिष्ठितैः । बाल्यादपि महापुण्यश्रेण्या नित्यमधिष्ठितैः ॥ १४ ॥ श्रीमानतुङ्गसूरिभिराराध्यैः सूत्रयत्जयन्ता ( न्त्या )ख्यम् । प्रकरणकारि शुभदं भगवत्यंगान्मनोहारि ॥ १५ ॥ तस्योपरि गुरुभक्त्या विदधे सुधियां मनोरमा वृत्तिः । श्रीमलयप्रभसूरिभिरिह या पूज्यैः प्रसन्नतमैः ॥ १६॥ तामिह सा नाऊका ज्ञानाराधनधिया सुगुरुभक्त्या । लेखितवती गुणवती महासती शुद्धशुभभावा ॥१७॥ यावत्वारुमरीचिसञ्चयचिते चन्द्रार्कयोर्मण्डले, राजे गगनश्रये मणिमये दिव्ये चलकुण्डले । ताराश्रेणिरियं पुनः सुकुसुमालङ्कारशोभावहा, तावत्पुस्तकमेतद् अद्भुततमं व्याख्यायतां सूरिभिः ॥१८॥ स्वस्तिश्रीविक्रमनरेन्द्रतः संवत् १२६१ वर्षे आश्विन वदि ७ रवौ पुष्यनक्षत्रे शुभयोगे श्रीमदणहिलपाटके महाराजाधिराज श्री भीमदेवकल्याणविजयिराज्ये प्रवर्तमाने श्रीप्राग्वाट25 ज्ञातीय श्रेष्ठिधवलमरुपुत्र्या ठ० नाउश्राविकया आत्मश्रेयोर्थं पण्डितमुञ्जालहस्तेन मङ्कुशिकास्थाने जयन्तीवृत्तिपुस्तकं लेखयित्वा श्रीअजितदेवसूरीणां निजभक्त्या समर्पितमिति ॥ शुभं भवतु ॥ Jain Education International 2010_02 इति श्रीजयन्तीप्रकरणवृत्तिः ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462