Book Title: Jain Tark Sangraha Jain Muktavali cha
Author(s): Vijaynandansuri
Publisher: Godi Parshwanath Jain Temple Trust

Previous | Next

Page 182
________________ १३७ • ज्ञानेति । ज्ञानावरणीय-दर्शनावरणीय-वेदनीय-मोहनीया-यु-र्नामगोत्रान्तरायरूपास्तस्य मूलभेदाः । उत्तरभेदास्तु क्रमेण पञ्च, नव, द्वौ, अष्टाविंशतिः, चत्वारः, व्युत्तरशतं, द्वौ, पञ्चेति । शुभाशुभेति । एतत् सर्वं कर्मापि सामान्यतः शुभमशुभं चेति द्विप्रकारम् । तत्र शुभफलदं शुभं, अशुभफलदमशुभं बोध्यम् ।।१०२-१०३॥ अथादृष्ट स्यान्यरात्मधर्मत्वमभिमन्यते, तन्निरासायाहकार्मणवर्गणाजात-मिदं पौद्गलिकं मतम् । औदारिकादिभेदेन, वर्गणाऽष्टविधा मता ॥१०४॥ - इदमिति । कर्म । पौद्गलिकमिति । पुद्गलनिर्वृत्तं मूर्त्तमिति यावत् । इदश्चात्रानुमानम्-अदृष्टं पौद्गलिकं; आत्मानुग्रहोपधातहेतुत्वात् , शरीरवत् । ननु किंवर्गणासम्बन्धिनः पुद्गलाः कर्मत्वमापद्यन्ते इत्याह-कार्मणेति। तथा च कार्मणवर्गणासम्बन्धिन एव पुद्गलस्कन्धा आत्मना कर्मत्वमापाद्यन्त इति भावः । · ननु वर्गणा कतिविधेत्याह- औदारिकादिति । औदारिक-वैक्रिया-हारकतैजसो--च्छ्वास-भाषा-मन:- कार्मणवर्गण भेद।दष्टविधा वर्गणेति । एताश्च जघन्यतोऽप्यभव्यानन्तगुण-सिद्धानन्तभागकल्पपरमाणुसमुदायरूपा उत्कर्षतस्तु स्वस्वानन्ततमभागेन विशेषाधिका बोध्याः । एवमेता अष्टौ वर्गणा जीवग्रहणप्रायोग्या बोध्याः । अन्यथाऽन्तराऽन्तराऽग्रहणान्तरीयवर्गणाभेदेन ध्रुवाचित्तादिवर्गणाभेदेन च तासां बहूनां सद्भावात् । एवं चौदा रिकादिसम्बन्धी परमाणुः कार्मणादिवर्गणात्वेन परिणमति, कार्मणा दिसम्बन्धी चौदारिकादित्वेन । एवं पृथ्यादि जलादित्वेन जलादि च पृथ्व्यादित्वेनापि परिणमतीति बोध्यम् ॥१०॥ अथ प्रकारान्तरेण कर्मभेदानाह प्रकृत्यादिविधाभिश्च, चतुर्धा कर्म कीर्तितम् ।। प्रकृत्यादीति । प्रकृति-स्थित्यनुभाग-प्रदेशभेदात् कर्म चतुर्विधम् । तत्र कर्मणां ज्ञानावारकत्वादिस्वभावः प्रकृतिः । प्रतिनियतकालावस्थानरूपा

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276