Book Title: Jain Tark Sangraha Jain Muktavali cha
Author(s): Vijaynandansuri
Publisher: Godi Parshwanath Jain Temple Trust

Previous | Next

Page 229
________________ १८४ यच्च नामोच्चारण कालेऽर्थकार्यमापादितं तत् तदा स्याद् यदि यद् यत्कार्य तत् तस्य सर्वास्ववस्थासु भवतीति नियमः स्यात् । न चैवं; तथा सति घटरूपार्थस्य जलाहरणादिकार्य न कदाचिदपि विरमेत् । योग्यता तु सहकारिपुरस्कारेण यथा घटरूपार्थस्य, तथा तदात्मकावस्थालक्षणा दिसह कारिपुरस्कारेण नाम्नोऽपि । तथा च तत्सहकारिसम्पादनार्थमायासान्तरमपि न निष्फलम् । न ह्यर्थावस्थानदेशे गुमगुमायमानताप्रसङ्गोऽपि; तदवस्थायां सूक्ष्म रूपेणैवावस्थानस्याभ्युपगम्यत्वात् । २. न चैवमुक्तदिशा दोषपरीहारेऽर्थरूपतेव शब्दस्यास्तु, शब्द एवार्थाव्यतिरिक्तो माऽस्विति वाच्यम् । यथा हि तद्घटरूपार्थविरहकाले तद्घटनाम्नः सत्त्वमित्यनुगामित्वं तस्य, नैव तद्घटनामविरहकाले तद्घटरूपार्थस्य सत्त्वमित्यर्थस्याऽननुगामित्वाच्छब्दस्य चानुगामित्वात् ; अनुगाम्यननुगामिनोमध्ये ऽनुगा मिसत्तैवा ऽऽडता भवत्यननुगामिनः; यथा रज्जुसर्पमालादिष्वनुगामिन इदमर्थस्येत्येवंनीत्या नामनिक्षेपमतं परिष्कत्तुं सुकरम् । 6. नामनिक्षेपाच्चाविर्भावो भर्तृहरिमतस्य । तन्मते चानायनक्षरं शब्दब्रह्मैव ॐकारस्वरूपं जगत उपादानम् । उपादेयस्योपादानस्वरूपतयोपादानसत्तैवो पादेयसत्तेति सर्वस्य वस्तुनः शब्दरूपता । तन्मते ज्ञानमात्रमेव शब्दसंघटितमूर्त्यवावभासते । निर्विकल्पकमपि किमपीत्येवमव्यक्तशब्दाकारारुषितमेव संवेयते । अत एवोक्तं "न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं, सर्व शब्देन भासते ॥१॥ वाग्रूपता चेद् व्युत्क्रामे-दवबोधस्य शाश्वती । न प्रकाश: प्रकाशेत, सा हि प्रत्यवमर्शिनी ॥२॥” इति ॥. एवं स्थापनानिक्षेपाभ्युपगन्ता नयोऽपि स्थापनानिक्षेपः । स च सर्वस्य वस्तुन आकाररूपतां शास्ति, प्रमाणयति चानुमानम् । तथा हि-घटादिक वस्तु पृथुबुध्नोदरायाकाररूपं, तद्ग्रहणे सत्येव गृह्यमाणत्वात् तद्प्रणमन्तरेणाऽगृह्य

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276