________________
१८४
यच्च नामोच्चारण कालेऽर्थकार्यमापादितं तत् तदा स्याद् यदि यद् यत्कार्य तत् तस्य सर्वास्ववस्थासु भवतीति नियमः स्यात् । न चैवं; तथा सति घटरूपार्थस्य जलाहरणादिकार्य न कदाचिदपि विरमेत् । योग्यता तु सहकारिपुरस्कारेण यथा घटरूपार्थस्य, तथा तदात्मकावस्थालक्षणा दिसह कारिपुरस्कारेण नाम्नोऽपि । तथा च तत्सहकारिसम्पादनार्थमायासान्तरमपि न निष्फलम् । न ह्यर्थावस्थानदेशे गुमगुमायमानताप्रसङ्गोऽपि; तदवस्थायां सूक्ष्म रूपेणैवावस्थानस्याभ्युपगम्यत्वात् । २. न चैवमुक्तदिशा दोषपरीहारेऽर्थरूपतेव शब्दस्यास्तु, शब्द एवार्थाव्यतिरिक्तो माऽस्विति वाच्यम् । यथा हि तद्घटरूपार्थविरहकाले तद्घटनाम्नः सत्त्वमित्यनुगामित्वं तस्य, नैव तद्घटनामविरहकाले तद्घटरूपार्थस्य सत्त्वमित्यर्थस्याऽननुगामित्वाच्छब्दस्य चानुगामित्वात् ; अनुगाम्यननुगामिनोमध्ये ऽनुगा मिसत्तैवा ऽऽडता भवत्यननुगामिनः; यथा रज्जुसर्पमालादिष्वनुगामिन इदमर्थस्येत्येवंनीत्या नामनिक्षेपमतं परिष्कत्तुं सुकरम् । 6. नामनिक्षेपाच्चाविर्भावो भर्तृहरिमतस्य । तन्मते चानायनक्षरं शब्दब्रह्मैव ॐकारस्वरूपं जगत उपादानम् । उपादेयस्योपादानस्वरूपतयोपादानसत्तैवो पादेयसत्तेति सर्वस्य वस्तुनः शब्दरूपता । तन्मते ज्ञानमात्रमेव शब्दसंघटितमूर्त्यवावभासते । निर्विकल्पकमपि किमपीत्येवमव्यक्तशब्दाकारारुषितमेव संवेयते । अत एवोक्तं
"न सोऽस्ति प्रत्ययो लोके, यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं, सर्व शब्देन भासते ॥१॥ वाग्रूपता चेद् व्युत्क्रामे-दवबोधस्य शाश्वती ।
न प्रकाश: प्रकाशेत, सा हि प्रत्यवमर्शिनी ॥२॥” इति ॥. एवं स्थापनानिक्षेपाभ्युपगन्ता नयोऽपि स्थापनानिक्षेपः । स च सर्वस्य वस्तुन आकाररूपतां शास्ति, प्रमाणयति चानुमानम् । तथा हि-घटादिक वस्तु पृथुबुध्नोदरायाकाररूपं, तद्ग्रहणे सत्येव गृह्यमाणत्वात् तद्प्रणमन्तरेणाऽगृह्य