________________
माणत्वाद्वा । अत्रापि व्याप्तिदृष्टान्तादिकं पूर्ववद् भावनीयम् । इदमस्यैदम्पर्यम्नहि घटादिकं नाम कारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्वीरूपस्वाकारमन्तरेण कचिदपि प्रतीतावरभासते । वाक्यमपि 'नीलो घट' इत्यादिरूपं स्वन्तनीलादिपदोत्तरस्वन्तघटादिपदत्वरूपाक टास्वरूपाकारारुषितमेवावभासते। एवं प्रकरणपरिच्छेदाध्यायादिकं, किं बहुना ? एकोऽप्यकारादिवर्णः स्वव्यञ्जकलिप्यादिप्रतिनियतारोपितकारारुषित एव बालानां प्रतीतिमधिरोहति । भाषावर्गणापुद्गलारब्धस्तु विभिन्नाकारतामन्तरेणाऽसङ्कीर्णस्वभावतया प्रतीतिपथं कथमारोहेत् ? । द्रव्यमपि मृदादि गुणपर्यायविकलं कदापि नोपलभ्यते । उपलम्भे वा स्वलक्षणमेवासो' जह्यात् । अत एवाचार्षदेशीयः द्रव्ये द्रव्यनिक्षेपस्य द्रव्यद्रव्य इत्ये वरूपस्य शून्यतामेवाभ्युपगच्छति । गुणपर्यायसहितं च पर्यायाकृतिरूपतयैवावभासते । सावयवानां च पुद्गलद्रव्याणामवयवसन्निवेशविशेषरूपाकृतिरूपतयैवोपलम्भ. इति तेषामाकृतिरूपता निराबाधैव । परमाणोरप्यन्यादृश आकारो वस्तुत्वादेव पक्षधर्मताबलादास्थेयः । धर्माधर्माकाशजीवानां सप्रदेशत्वादाकृतिरूपतयैवावभासः । प्रदेशास्तु तदीयाः प्रदेशिवियुता न भवन्त्येवेति प्रदेश्याकृतिस्वरूपसन्निविष्टतैव तेषाम् । गुणाश्च स्वाश्रयद्रव्याऽज हवृत्तय इति तदाकारेपैवाकावन्तः । नीलाद्या कारप्रतीतिविषयत्वाच नीलाद्या कारवन्तः । सामान्यविशेषो चन स्वतन्त्रौ, किन्तु वस्तुस्वरूपसन्निविष्टाविति वस्तुनो घटादेः साकारत्वात्तावप्याकृतिरूपतां स्वीकुरुतः ।
. न च ज्ञानस्य साकारोपयोगरूपत्वात् साकारत्वेऽपि दर्शनस्य निराकारोपयोगरूपत्वान्नाकृतिरूपतेति वाच्यम् । तत्र निराकारत्वं नाकाररहितत्वं, किन्तु सामान्यविषयत्वमेवेति विशेषाकारराहित्येऽपि सामान्याकारता तत्राप्यस्त्येवः अन्यथा वस्तुत्वव्यापकाकाररूपत्वाभावे वस्तुत्वमेव तस्य न स्यात् । उत्पादव्ययध्रौव्यलक्षणसत्त्वमप्याकारमुपादायैव घटते; यथा सुवर्ण कुण्डलाकारतयोत्पन्नं, अङ्गदाकाररूपेण विनष्टं, स्वस्वरूपाकारेण स्थितमिति । अर्थक्रियाकारित्वलक्षणं सत्त्वमप्याकाररूपतायामेव घटते; नहि मृद्र्व्यं पिण्डस्थासकोशाद्याकारतामना