________________
१८६
साद्य घटरूपोपादेयकार्यं विधातुमलम् ; घटोऽपि पृथुबुध्नोद राधाकृतिरूप एव जलाहरणाद्यर्थक्रियानिमित्ततामासादयति । यस्यापि वस्तुनो विशेषतः कश्विदाकारो न शृङ्गग्राहिकया निर्देष्टुं शक्यते, तदपि असद्भूतस्थापना मवलम्ब्यैव व्यवहारवीथीमवतरति; यथा गणनाव्यवहारे निर्धारितामुकसख्यकपणाणककार्षापण रूप्यकादेः : धान्यादिमूल्यदानादिना निश्शेषतो विविच्योपयोगं प्रदर्श्यावशिष्टाभावावगतये ० एतादृशाकार एव स्थाप्यत इत्येवं स्थापना निक्षेपः परिस्कर्तुं शक्यः । एतदभिप्रायमाश्रित्यैवोच्यते
66
कुलाव्यापृतेः पूर्वो यावानंशः स नो घटः ।
पश्चाच्च पृथुबुध्नादि - मत्त्वे युक्तास्य कुम्भता ॥ १ ॥ इति ॥
एतन्मूलकच नैयायिकादीनामनविवाद इत्थं प्रसाध्याङ्गको भवति । तथा हि-अवयवव्यतिरिक्तोऽवयवी तैरिष्टो द्रव्यरूपतया । परन्तु समवायिकारणत्वलक्षणं पारिभाविकमेव द्रव्यत्वं तैरुपगतं, न तु पूर्वापरपर्यायानुगामि स्थिर - भावलक्षणं 'द्रवति तांस्तान् पर्यायान् गच्छती' तिव्युत्पत्यवधृतस्वरूपं पारमार्थिकद्रव्यत्वमूर्ध्वतासामान्यापरपर्यायम् । पारिभाषिकद्रव्यरूपताऽप्यस्य तदा स्यादवयविरूपतायां, यदि यावदवयवगुरुत्वादधिकं गुरुत्वमंत्र नमनोन्नमनादिकार्यानुमेयं स्यात् । यतोऽवयविसत्ताकालेऽप्यवयवसत्ता पृथक्तयाऽवयविवादे स्वीकृताऽस्ति; आकृतिरूपतायां तु गुणे गुणाऽनङ्गीकारान्न तत्रातिरिक्तगुरुत्वादिकम् । उक्तन्यायेनैव कपालकपालिकादीनामपि न द्रव्यरूपता । नामरूपता च नामार्थयोस्ता: दात्म्यातिरिक्तशक्तिलक्षणसम्बन्धाभ्युपगमपराहता । मृत्व - सुवर्णत्वादिसाङ्कर्यादेकं घटत्वं जातिरूपं द्रव्यरूपे मृद्घटादौ नाभ्युपगन्तुं शक्यम् । मृत्त्वव्याप्यं घटस्वमन्यद् अन्यच्च सुवर्णत्वव्याप्यं घटत्वमित्येवं नानारूपं घट च साधकाभावादेव न सम्भवति । अनुगतप्रतीतिनिमित्ततयैव च जातिकल्पनं; मृद्घटसुवर्ण पाषाणादिघटेषु ' अयं घटोऽयं घट' इत्यनुगत प्रतीतिर्नाननुगतेनोतेन केनापि घटत्वेनेति अवयवसंनिवेशरूपसंस्थानविशेषवृत्त्येव ं घटत्वमिति तदाश्रयः संस्थानविशेष एव घटो न द्रव्यम्; जलाहरणाद्यर्थक्रियासमर्थत्वमपि