________________
तस्यैवेति । भावरूपत्वमपि तस्यैव, अर्थक्रिया सामर्थ्यावच्छेदकरूपवत एव भावात् ।
१८७
अनया दिशा कपालकपालिकादीनामप्याकृतिरूपताऽवसेया; सूक्ष्मेक्षिकायां परमाणुप्रचयसन्निवेशविशेषरूपतायामेव घटादेः पर्यवसानम् |
नामस्थापना निक्षेप द्वयमूलकश्च वेदान्तिनां जगतो नामरूपात्मकतावादः
यदुक्तं
66
सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत् " ॥ इति ॥
न चैवं निक्षेपद्वाभ्युपगमे स्याद्वाद इव तयोर्निमित्तभेदापेक्षया विरोधपरिहारेणावस्थानस्य स्वीकरणे एकान्तवादताहानिरिति वाच्यम् । नामनयेन हि नामतादात्म्येन नामरूपताऽभ्युपगता । वेदान्तिना तु नामनिरूप्यत्वेन नामरूपताSSता । नाम्नश्चार्थेन सह न तादात्म्येन सम्बद्धता, किन्तु वाच्यवाचकभावलक्षणसम्बन्धान्तरेणैव । तथापि नामनिरूप्यत्वं नामनये वेदान्तनये चाविशिष्टमित्येतावन्मात्रेण नामनिक्षेपमूलकत्वमस्याभिधीयते ।
नन्वेवं निक्षेपचतुष्टयाभ्युपगन्तृस्याद्वादेऽपि अर्थस्य नाम्ना सह तादात्म्य - लक्षणस्सम्बन्धो नाभ्युपगम्यत एव किन्तु वाच्यवाचकभाव एवेति तत्रापि वस्तुगत्या नामनिक्षेपप्रवेशो नास्तीति वाच्यम् । स्याद्वादे सम्बन्धमात्रस्य भेदसम्व'लिताऽभेदलक्षणकथञ्चित्तादात्म्य सम्बन्धनियतत्वाभ्युपगमात् । न च शब्दार्थयोर्भेदनिमित्तं स्वस्वासाधारणरूपं समस्ति, ततो भेदोऽस्तु, अनुगामि तु किमप्यभेदनिमित्तं नालोक्यते, सच्चप्रमेयत्वादेरनुगामिनो निमित्तत्वे घटशब्दस्य पटरूपार्थेन सहाऽभेदः स्यादिति वाच्यम् । तुल्यनामधेयत्वस्याऽतिप्रसङ्गानापादकस्याऽभेदनिमित्तत्वात् । वस्तुतो वाच्ये वाच्यताशक्तिः वाचके च वाचकताशक्तिः । तादृशशक्तिद्वयपिण्डितरूपो नृसिंहाकार एव वाच्यवाचकभावः । शक्तिश्च शक्तिमतोऽभिनेति वाच्यवाचकभावलक्षण सम्बन्धोऽपि वाच्यवाचकाभ्यामभिन्न इति वाच्योत्पत्तिकाले वाच्यताशक्त्यात्मना से उत्पद्यते वाचकोत्पत्तिकाले वाच