SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १८८ कताशक्तात्मनेति तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन नामाभिन्नोकसम्बन्धाभिन्नत्वादर्थस्य नामाभिन्नत्वमिति स्याद्वादे नामनिक्षेपाभिमतनामार्थता - दात्म्यं घटएव ॥ वेदान्त्यभिमतजगत्स्वरूपे च स्थापनानिक्षेप ाभिमताकृति - तादात्म्यं स्वरूपत एवोत्पद्यत इति ध्येयम् ॥ द्रव्यनिक्षेपाभ्युपगन्ता नयोऽपि द्रव्यनिक्षेपः । स च सर्वस्य वस्तुनो द्रव्यरूपता मेवाभ्युपगच्छति प्रमाणयति च घटादिकं वस्तु मृदादिद्रव्यरूपमेव, तद्व्यतिरेकेणाऽनुपलभ्यमानत्वात् यद् यद्वयतिरेकेण नोपलभ्यते तत् तद्रूपं, यथा घटस्य स्वरूपं घटरूपमिति । अत्रापि घटादिकार्यस्य जलाहरणादेमृत्पि ण्डाद्यवस्थायां न प्रसङ्गः, तत्तदवस्थाविशेषभावापन्नस्यैव तत्तद्रव्यस्य तत्तदव - स्थाकार्यकारित्वाभ्युपगमात् । न चाऽवस्थाऽवस्थातुरन्या;. . तत्त्वे 'तस्येयमवस्थे' ति प्रतीयमानसम्बन्धस्यैवाऽघटनात् । न चाऽभेदे षष्ठयर्थसम्बन्धानुपपत्तिः; 'घटस्य स्वरूपं' 'राहोः शिर' इतिवदुपपत्तेः । न च भेदेऽपि 'राज्ञः पुरुष' इति - वत्सम्बन्धोपपत्तिरिति साम्प्रतम् राजानमन्तरेण पुरुषोपलब्धिवन्मृदाद्यन्तरेण घटाद्युपलब्धेरभावात् । यत्र यदनुगामि तत्र तद्द्द्द्रव्यमित्येवं सर्वत्र द्रव्यस्वरूपं प्रतिपत्तव्यम् । वर्त - मानत्वेनाभिमतो घटादिः वर्त्तमानकालेऽपि न वर्त्तते, पूर्वापरकाला वृत्तित्वात्; यन्नैवं तन्नैवं, यथा द्रव्यम् । अनेन त्रिकालाऽवृत्तित्वे शशाङ्गादिवदलीकत्वं तस्य सिद्धयति । अत एवोक्तं 66 न व्यक्तेः× पूर्वमस्त्येव, न पश्चाच्चापि नाशतः । आदावन्ते च यन्नास्ति, वर्त्तमानेऽपि तत्तथा ॥ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ! | " अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ " Xटि. आविर्भावस्य ।
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy