________________
अदर्शनादापतितः पुनश्चाऽदर्शनं गतः ।
नासौ तव न तस्य त्वं, वृथा का परिदेवना ।। इति ॥ द्रव्यनिक्षेपप्रभवः परिणामवादः सत्कार्यवादपर्यवसायी साङ्ख्यस्य, विवर्त्तवादश्वानिर्वचनीयतावादपर्यवसन्नो वेदान्तिनः । साङ्ख्यस्य च परिणामवादो न जैनाभ्युपगतपरिणामवादादभिन्नः । यदेवानुगामि द्रव्यं सुवर्णादि तदेव कटकादिपूर्वपरिणामं परित्यज्य कुण्डलादिरूपेण परिणमति तदवस्थायामपि सुवर्णादिरूपं समस्त्येव, इत्येवं परिणामवादो जैनस्य । साङ्खयस्य तु प्रकृतिर्बुद्धिरूपेण परिणमति, बुद्धिरहङ्काररूपेणेत्येवं पूर्वपूर्व स्योत्तरोत्तररूपेण परिणाम इति । न च बुद्धिदशायां प्रकृतेः स्वरूपेणावस्थानम् । यतः 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः'; सा कथं सत्त्वादिगुणोपचयापचयावस्थायां वुद्धयादिरूपायां स्यात् ! । न चैवं सति पूर्वापरपर्यायानुगामित्वाभावाद् द्रव्यरूपताऽपि प्रकृतेविलीयेत, ततश्च द्रव्यनिक्षेपमूलकत्वं भज्येतेति वाच्यम् । त्रिगुणस्वरूपतामात्रमुपादायैव तत्र द्रव्यरूपतो
पगमात् । त्रिगुणरूपता चाऽन्त्यविकृतावपि । यत उक्तं.: "यथैकैव स्त्री रूपयौवनलावण्यकुलशोलसम्पन्ना स्वामिनं सुखाकरोति तत्कस्य हेतोः ?, तं प्रति सत्त्वगुणसमुद्भवात्; सपत्नीवुःखाकरोति तत्कस्य हेतोः ?, ताः प्रति तस्या रजोगुणसमुद्भवात् जनान्तरमविन्दमानं मोहयति, तं प्रति तस्यास्तमोगुणसद्भावात् ' इति । ___ वेदान्त्यभ्युपगतवादोऽपि न जैनपरिणामवादसमशोलः । तत्र यद्यपि जगतो मायापरिणामरूपतावादस्समस्ति; परिणामश्चोपादानसमसत्ताकोपादेयाविर्भावः इति परिणामरूपतामात्रेण तावन्मात्रे साम्यमाभासते । तथापि साङ्ख्यदर्शितदिशा परिणम्यपरिणमनभावोऽत्रापि । परमाणुवादमुररीकृत्य च जैनस्य परिणामवादो, नैवं वेदान्तिनः।
अयमभिप्रायः-यद्यपि पञ्चीकरणप्रक्रियया सूक्ष्मतन्मात्राणां स्थूलभूतरूपपरिणाम अन्योन्यसम्मेलनापेक्षा मायावादेऽपि विद्यते; तथापि मायाया यत्प्रथमतो