________________
१९०
विजातीय सूक्ष्मतन्मात्रारूपेण स्वन्यूनपरिणामवता परिणमनं, न तत्र सजातीयान्तरसम्मेलनविभजनाद्यपेक्षा | जैनानां तु परमाणोः प्रथमतः स्कन्धात्मना परिणमने सजातीयान्तरसम्मेलनस्य, स्कन्धार्गतस्य तु अप्रदेशाणुरूपतया परिणमने विभागस्य नियमेनापेक्षणादिति । विवर्त्तस्तु उपादानविषमसत्ताककार्यापत्तिरूपोऽत्यन्तं विविक्तः । विवर्त्तवादे च ब्रह्मैव जगद्रूपेणावभासते रज्जुरिव सर्पमालाद्यात्मना । तथा च कल्पितस्य जगतोऽधिष्ठानभूतब्रह्म सत्तातिरिक्तसत्ताकत्वाभाव एव ब्रह्मानुवेध: ( ब्रह्मणो जगति नानारूपेऽनुगमनम् ) । तत एव च द्रव्यरूपंता ब्रह्मणः। न च नैयायिकाभिमतसत्तासम्बन्धात् सत्त्वं घटादेः कुतो नेति प्रष्टव्यम् । 'सन् घटः सन् पट' इत्यादि प्रतीतिरेव सत्तासाक्षिणी; सा चातिरिक्तसत्ता-: तत्सम्बन्धकल्पनागौरवाद् बिभ्यन्ती सत्स्वरूपब्रह्मतादात्म्यमेव घटादीनांमवगाहैते । एव' मिष्टो घट' इत्यादिप्रतीत्याऽऽनन्दस्वरूपब्रह्मतादात्म्यं 'ज्ञातो घट' इत्यादिप्रतीत्या चैतन्यलक्षणब्रह्मतादात्म्यं च भासत इत्यनुगामि सच्चिदानन्दात्मक रूपयोगो जगतो ब्रह्मोपाधिकः । नामरूपात्मकाविद्यकरूपद्वययोगस्तु स्वतः । अत एवोक्तपञ्चरूपात्मकं जगद् गीयते, तद्विवेकायोक्तम्
""
"
सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत् ” इति ॥ भावनिक्षेपाऽभ्युपगन्ता नयोऽपि भावनिक्षेपः । स च सर्वस्य वस्तुनो भावस्वरूपतामेत्रानुशास्ति, प्रमाणयति च सर्वं वस्तु भावस्वरूपं, भावस्वरूपतामुपादायैव कार्यकारित्वाद् भावस्वरूपवदित्यनुमानम् । अस्यायमभिप्रायः–नहि शतकृत्व उच्चार्यमाणमपि घटनाम जलाहरणादिकार्य विधातुमलम्, नवा इन्द्रनामसङ्केतितो नामेन्द्रो रथ्यापुरुषादिः स्वर्गसाम्राज्यमनुभवति; घटोऽस्ति, घटमानय, घटेन जलमाहरतीत्यादौ सर्वत्र व्यवहारे भावघटस्यैवापामरं प्रतीत्युपपत्तेः । न च नाम्नाऽप्यर्थप्रतीतिरूपं कार्यं भवत्येवेति वाच्यम्; भावाऽनवबोधात् ।
योऽयं मृत्पिण्डदण्डचक्रकुलालादिकारणचक्रष्पिन्नो भावस्तस्यैव नामस्थापनाद्रव्यभावतश्चतुर्धा विभजनमनुयोगद्वारतयाऽऽश्रीयते । तत्रैवमुच्यते - भावघट