________________
१९१
I
एव घटकार्यतया लोकप्रसिद्धाया जलाहरणाद्यर्थक्रियाया निष्पादने पटुरिति स एव मुख्यो घटः; नामघटादयस्तदात्मतामासादयन्त एव तादृशार्थक्रियाकारिणो, नान्यथेति । अर्थप्रतीतिस्तु यन्नामकार्यतयोपदर्श्यते तत्रार्प यमेव गतिः, यतो घटरूपार्थप्रतीतिकार्यकारित्वात् घकारोत्तराकारोत्तरस्कारोत्तरावरूपानुपूर्व्यवच्छिन्नं यन्नाम तत्तादृशप्रतीतिरूप कार्याश्रयेण भावनाम । यञ्च न तादृशानुपूर्व्यवच्छिन्नं, किन्तु पकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्याद्यच्छन्नं पटादिरूपार्थप्रतीतिकार्यकारि तदपि घटनामेतिनाम्ना सङ्केतितं तन्नामनाम; अर्थो वा यः कश्चित्तथासङ्केतितो नामनामेति प्रत्येतव्यः । उक्तनाम्नश्च चित्रादौ स्थापिताक्षाकारः स्थापनानाम | तन्नाम्नश्च पूर्वं वर्त्तमाना भाषावर्गणा या तन्नामरूपेण परिणमिष्यति सा द्रव्यनामेति ।
एवं विभज्यमाने घटनामस्वरूपे भावनामैव घटार्थप्रतीतिरूपकार्य निष्पादने क्षममिति तदेव सत् । नामनामादयस्तु तद्रूपताश्रयणेनैवोक्तप्रतीतिकारिणः । एवमा कृतिद्रव्ययोरपि भावनीयम् ।
भावनिक्षेपमूलकं च सौगतदर्शनम् । यतस्तन्मते पूर्वोत्तर पर्यायानुगामि द्रव्यं नास्त्येव; सर्वस्यैव क्षणिकतयैवाभ्युपगमात् । स्वलक्षणस्यार्थस्य शब्दगोचरत्वं नात्येवेति नार्थप्रतिपादकतयाऽभिमतं नामापि तत्र विद्यते । अयमभिप्रायः- न हि तन्मते घटपटादिनामै नास्ति; अनुभूयमानस्य तस्यापलपितुमशक्यत्वात्; किन्त्वप्रतिपादकतापन्नस्य शब्दस्य नामता भवति । तन्मते च शब्दस्यार्थप्रतिपादकता नास्तीति विशेषण भावाद् विशिष्टस्याप्यभाव इति । आकृतिस्तु क्रिययाऽवयवानां सन्निवेशविशेषः संयोगविशेषापर पर्यायस्तन्मते नास्त्येव; यतः क्रियैव नास्ति, अविरलक्रमेण विभिन्न देशसन्तानोत्पादस्य क्रियास्थाने तेनाभिषेकात् । संयोगोऽपि नास्ति, तत्स्थाने नैरन्तर्यस्यैवाभिषिक्तत्वात् । एवमवयव्यपि नास्ति, तत्स्थाने परमाणुपुञ्जस्यैवादृतत्वादतो वर्त्तमानक्षणवृत्ति भावमात्रं तन्मते परमार्थसत्, अर्थक्रियाकारित्वलक्षण सत्त्वयोगादिति दिक् ॥