Book Title: Jain Tark Sangraha Jain Muktavali cha
Author(s): Vijaynandansuri
Publisher: Godi Parshwanath Jain Temple Trust

Previous | Next

Page 230
________________ माणत्वाद्वा । अत्रापि व्याप्तिदृष्टान्तादिकं पूर्ववद् भावनीयम् । इदमस्यैदम्पर्यम्नहि घटादिकं नाम कारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्वीरूपस्वाकारमन्तरेण कचिदपि प्रतीतावरभासते । वाक्यमपि 'नीलो घट' इत्यादिरूपं स्वन्तनीलादिपदोत्तरस्वन्तघटादिपदत्वरूपाक टास्वरूपाकारारुषितमेवावभासते। एवं प्रकरणपरिच्छेदाध्यायादिकं, किं बहुना ? एकोऽप्यकारादिवर्णः स्वव्यञ्जकलिप्यादिप्रतिनियतारोपितकारारुषित एव बालानां प्रतीतिमधिरोहति । भाषावर्गणापुद्गलारब्धस्तु विभिन्नाकारतामन्तरेणाऽसङ्कीर्णस्वभावतया प्रतीतिपथं कथमारोहेत् ? । द्रव्यमपि मृदादि गुणपर्यायविकलं कदापि नोपलभ्यते । उपलम्भे वा स्वलक्षणमेवासो' जह्यात् । अत एवाचार्षदेशीयः द्रव्ये द्रव्यनिक्षेपस्य द्रव्यद्रव्य इत्ये वरूपस्य शून्यतामेवाभ्युपगच्छति । गुणपर्यायसहितं च पर्यायाकृतिरूपतयैवावभासते । सावयवानां च पुद्गलद्रव्याणामवयवसन्निवेशविशेषरूपाकृतिरूपतयैवोपलम्भ. इति तेषामाकृतिरूपता निराबाधैव । परमाणोरप्यन्यादृश आकारो वस्तुत्वादेव पक्षधर्मताबलादास्थेयः । धर्माधर्माकाशजीवानां सप्रदेशत्वादाकृतिरूपतयैवावभासः । प्रदेशास्तु तदीयाः प्रदेशिवियुता न भवन्त्येवेति प्रदेश्याकृतिस्वरूपसन्निविष्टतैव तेषाम् । गुणाश्च स्वाश्रयद्रव्याऽज हवृत्तय इति तदाकारेपैवाकावन्तः । नीलाद्या कारप्रतीतिविषयत्वाच नीलाद्या कारवन्तः । सामान्यविशेषो चन स्वतन्त्रौ, किन्तु वस्तुस्वरूपसन्निविष्टाविति वस्तुनो घटादेः साकारत्वात्तावप्याकृतिरूपतां स्वीकुरुतः । . न च ज्ञानस्य साकारोपयोगरूपत्वात् साकारत्वेऽपि दर्शनस्य निराकारोपयोगरूपत्वान्नाकृतिरूपतेति वाच्यम् । तत्र निराकारत्वं नाकाररहितत्वं, किन्तु सामान्यविषयत्वमेवेति विशेषाकारराहित्येऽपि सामान्याकारता तत्राप्यस्त्येवः अन्यथा वस्तुत्वव्यापकाकाररूपत्वाभावे वस्तुत्वमेव तस्य न स्यात् । उत्पादव्ययध्रौव्यलक्षणसत्त्वमप्याकारमुपादायैव घटते; यथा सुवर्ण कुण्डलाकारतयोत्पन्नं, अङ्गदाकाररूपेण विनष्टं, स्वस्वरूपाकारेण स्थितमिति । अर्थक्रियाकारित्वलक्षणं सत्त्वमप्याकाररूपतायामेव घटते; नहि मृद्र्व्यं पिण्डस्थासकोशाद्याकारतामना

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276