Book Title: Jain Tark Sangraha Jain Muktavali cha
Author(s): Vijaynandansuri
Publisher: Godi Parshwanath Jain Temple Trust
________________
२८३
न निक्षेपत्वमित्यावेदयितुं विशेष्यभावापन्नवस्त्वभिधायकपदमात्राव्यवहितपूर्ववर्तीत्यत्राशेषार्थकस्य मात्रपदस्य निवेशः । नहि नाम्न इव 'मृत्'पदस्याऽशेषविशेष्यपदाव्यवहितपूर्ववर्त्तिता; तन्त्वादीनां विशेष्यवाचकपदत्वे तदव्यवहितपूर्ववर्तित्वस्य 'मृत्' पदेऽभावात् । 'वस्तुत्वव्यापकधर्मावच्छिन्नाशक्ते'ति विशेषणात् सद्घटादिघटके सत्पदे न निक्षेपत्वप्रसङ्गः । एवं ज्ञेयघटादावपि । 'विशेष्यवरतुस्वरूपविशेषाविर्भावनप्रत्यले'त्यनेन अन्यत्र कर्मधारये यथा विशेष्यवाचकपदाव्यवहितपूर्ववर्तिविशेषणपदेन विशेष्यतावच्छेदकधर्मभिन्नप्रकारतावच्छेदकावच्छिन्नो बोध्यते नैवमत्र, किन्तु विशेषणविशेष्यपदाभ्यां सम्भूयैक विशेष्यतावच्छेदकधर्मावच्छिन्नस्यैवावबोधः ।
यद्यपि नामनिक्षेपांदिवचनविशेषोऽज्ञत्वादेव न कस्यचिदर्थस्याऽभ्युपगन्ता प्रतिक्षेप्ता वा, तथापि नामनिक्षेपाभ्युपगन्ता नयोऽपि नामनिक्षेप उच्यते; स वस्तुमात्रस्य नामस्वरूपत्वम युपगच्छति, प्रमाणयति चात्रानुमानमिदम् , अर्थों नामस्वरूपः, नामप्रतीतो सत्यामेव प्रतीयमानत्वाद् नाम्ना प्रतीयमानत्वाद्वा; यद् यत्प्रतीतौ प्रतीयते. तत् तत्स्वरूपं, यथा मृत्प्रतीतो सत्यामेव प्रतीयमानो घटो मृत्स्वरूप एवेति सामान्यव्याप्तिः । न चार्थस्य नामरूपत्वे यदर्थस्य. यत्कार्य तत्तन्नाम्नोऽपि स्यादित्यग्न्यादिशब्दोच्चारणे मुखदाहादिकं स्याद्र्थावस्थानंदेशे गुमगुमायमानता च स्यात् । रत्नादिशब्दोच्चारणादेव रत्नादिप्राप्तौ न तदर्थ प्रयासान्तरं कोऽप्यातिष्ठेदिति वाच्यम् । यथा हि घटस्य मृदूपत्वे घटस्य कार्य जलाहरणादि मृत्कार्यं भवति, न हि तन्मृदो व्यतिरिक्तादेव जातं येन मृत्कार्यं न स्यात्; एवं घटरूपार्थस्य घटनामरूपत्वे घटकार्यमपि घटनामकार्य भवत्येव । यथा च घटस्य पूर्वकाले उत्तरकाले च मृद एव सत्त्वेन घटकालेऽपि तस्या एव सत्त्वं घटस्य तु तदवस्थारूपतयैव सत्त्वं, न तु स्वातन्त्र्येण; तथा सति नामावगमव्यतिरेकेणापि तदवगमः प्रसज्येत । एतदभिप्रायेणैव चोच्यते... "व्यक्ते * नष्टेऽपि नामैत-न्नृवक्त्रेष्वनुवर्तते ।
सेन नाम्ना निरूप्यत्वाद्, व्यक्तं तद्रूपमुच्यते " ॥इति॥ टि. * घटादौ ॥
Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276