Book Title: Jain Tark Sangraha Jain Muktavali cha
Author(s): Vijaynandansuri
Publisher: Godi Parshwanath Jain Temple Trust

Previous | Next

Page 235
________________ १९० विजातीय सूक्ष्मतन्मात्रारूपेण स्वन्यूनपरिणामवता परिणमनं, न तत्र सजातीयान्तरसम्मेलनविभजनाद्यपेक्षा | जैनानां तु परमाणोः प्रथमतः स्कन्धात्मना परिणमने सजातीयान्तरसम्मेलनस्य, स्कन्धार्गतस्य तु अप्रदेशाणुरूपतया परिणमने विभागस्य नियमेनापेक्षणादिति । विवर्त्तस्तु उपादानविषमसत्ताककार्यापत्तिरूपोऽत्यन्तं विविक्तः । विवर्त्तवादे च ब्रह्मैव जगद्रूपेणावभासते रज्जुरिव सर्पमालाद्यात्मना । तथा च कल्पितस्य जगतोऽधिष्ठानभूतब्रह्म सत्तातिरिक्तसत्ताकत्वाभाव एव ब्रह्मानुवेध: ( ब्रह्मणो जगति नानारूपेऽनुगमनम् ) । तत एव च द्रव्यरूपंता ब्रह्मणः। न च नैयायिकाभिमतसत्तासम्बन्धात् सत्त्वं घटादेः कुतो नेति प्रष्टव्यम् । 'सन् घटः सन् पट' इत्यादि प्रतीतिरेव सत्तासाक्षिणी; सा चातिरिक्तसत्ता-: तत्सम्बन्धकल्पनागौरवाद् बिभ्यन्ती सत्स्वरूपब्रह्मतादात्म्यमेव घटादीनांमवगाहैते । एव' मिष्टो घट' इत्यादिप्रतीत्याऽऽनन्दस्वरूपब्रह्मतादात्म्यं 'ज्ञातो घट' इत्यादिप्रतीत्या चैतन्यलक्षणब्रह्मतादात्म्यं च भासत इत्यनुगामि सच्चिदानन्दात्मक रूपयोगो जगतो ब्रह्मोपाधिकः । नामरूपात्मकाविद्यकरूपद्वययोगस्तु स्वतः । अत एवोक्तपञ्चरूपात्मकं जगद् गीयते, तद्विवेकायोक्तम् "" " सच्चित्सुखात्मकं ब्रह्म, नामरूपात्मकं जगत् ” इति ॥ भावनिक्षेपाऽभ्युपगन्ता नयोऽपि भावनिक्षेपः । स च सर्वस्य वस्तुनो भावस्वरूपतामेत्रानुशास्ति, प्रमाणयति च सर्वं वस्तु भावस्वरूपं, भावस्वरूपतामुपादायैव कार्यकारित्वाद् भावस्वरूपवदित्यनुमानम् । अस्यायमभिप्रायः–नहि शतकृत्व उच्चार्यमाणमपि घटनाम जलाहरणादिकार्य विधातुमलम्, नवा इन्द्रनामसङ्केतितो नामेन्द्रो रथ्यापुरुषादिः स्वर्गसाम्राज्यमनुभवति; घटोऽस्ति, घटमानय, घटेन जलमाहरतीत्यादौ सर्वत्र व्यवहारे भावघटस्यैवापामरं प्रतीत्युपपत्तेः । न च नाम्नाऽप्यर्थप्रतीतिरूपं कार्यं भवत्येवेति वाच्यम्; भावाऽनवबोधात् । योऽयं मृत्पिण्डदण्डचक्रकुलालादिकारणचक्रष्पिन्नो भावस्तस्यैव नामस्थापनाद्रव्यभावतश्चतुर्धा विभजनमनुयोगद्वारतयाऽऽश्रीयते । तत्रैवमुच्यते - भावघट

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276