Book Title: Jain Tark Sangraha Jain Muktavali cha
Author(s): Vijaynandansuri
Publisher: Godi Parshwanath Jain Temple Trust

Previous | Next

Page 221
________________ १७६ स नामस्थापनाद्रव्य-भावभेदाच्चतुर्विधः । द्रव्यार्थिकनयस्य स्या-दिष्टं नामादिकत्रयम् ॥९६॥ पर्यायार्थिकयोगस्तु, भावस्यैव विभावितः । शुद्धत्वाद् भावमिच्छन्ति, शब्दादिका नयास्त्रयः ॥९॥ चत्वारः सर्वनिक्षेपा-निच्छन्तीति मतं परम् । एतैर्जीवादिका भावा, निरूप्यन्ते यथागमम् ॥९८॥..' अथात्मा द्विविधः प्रोक्तो, मुक्तामुक्तविभागतः । मुक्तिः कर्मक्षयो ज्ञेयः परमानन्द इत्युत ॥९९॥ मुक्ताः सिद्धा गताः पारं, परम्परगताश्च ते। : प्राक्प्रयोगादिना गत्वा, लोकाग्रस्थानसंस्थिताः ॥१००॥ . पूर्वदेहत्रिभागेन, मिताकाशावगाहनाः । . तीर्थातीर्थप्रकारेण, द्विविधाः परिकीर्तिताः ॥११॥ सर्व कर्मविनिर्मुक्ताः; कर्माष्टप्रभिदं मतम् । ज्ञानावरणमाद्यं स्या-दर्शनावरणं परम् ॥१०२॥ वेद्यं च मोहनीयं चा-युष्कं च नाम गोत्रकम् । विघ्नं चाष्टममाख्यातं, शुभाशुभमिति द्विधा ॥१०३॥ कार्मणवर्गणाजात-मिदं पौद्गलिकं मतम् । औदारिकादिभेदेन, वर्गणाऽष्टविधा मता ॥१०४॥ प्रकृत्यादिविधाभिश्च, चतुर्धा कर्म कीर्तितम् । मिथ्यात्वाविरतियोग-कषायाश्चेति बन्धकाः ॥१०५॥ प्रकृत्यां च प्रदेशे च, कारणं योग आहितः । अनुभागे स्थितौ च स्यात्, कषायः कारणं किल ॥१०६॥ यथासम्भवमेतेषा-मष्टधा करणं मतम् । एतेषामुदयादिः स्याद्, द्रव्यक्षेत्रादिभेदतः ।।१०७॥

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276