________________
१७६
स नामस्थापनाद्रव्य-भावभेदाच्चतुर्विधः । द्रव्यार्थिकनयस्य स्या-दिष्टं नामादिकत्रयम् ॥९६॥ पर्यायार्थिकयोगस्तु, भावस्यैव विभावितः । शुद्धत्वाद् भावमिच्छन्ति, शब्दादिका नयास्त्रयः ॥९॥ चत्वारः सर्वनिक्षेपा-निच्छन्तीति मतं परम् । एतैर्जीवादिका भावा, निरूप्यन्ते यथागमम् ॥९८॥..' अथात्मा द्विविधः प्रोक्तो, मुक्तामुक्तविभागतः । मुक्तिः कर्मक्षयो ज्ञेयः परमानन्द इत्युत ॥९९॥ मुक्ताः सिद्धा गताः पारं, परम्परगताश्च ते। : प्राक्प्रयोगादिना गत्वा, लोकाग्रस्थानसंस्थिताः ॥१००॥ . पूर्वदेहत्रिभागेन, मिताकाशावगाहनाः । . तीर्थातीर्थप्रकारेण, द्विविधाः परिकीर्तिताः ॥११॥ सर्व कर्मविनिर्मुक्ताः; कर्माष्टप्रभिदं मतम् । ज्ञानावरणमाद्यं स्या-दर्शनावरणं परम् ॥१०२॥ वेद्यं च मोहनीयं चा-युष्कं च नाम गोत्रकम् । विघ्नं चाष्टममाख्यातं, शुभाशुभमिति द्विधा ॥१०३॥ कार्मणवर्गणाजात-मिदं पौद्गलिकं मतम् ।
औदारिकादिभेदेन, वर्गणाऽष्टविधा मता ॥१०४॥ प्रकृत्यादिविधाभिश्च, चतुर्धा कर्म कीर्तितम् । मिथ्यात्वाविरतियोग-कषायाश्चेति बन्धकाः ॥१०५॥ प्रकृत्यां च प्रदेशे च, कारणं योग आहितः । अनुभागे स्थितौ च स्यात्, कषायः कारणं किल ॥१०६॥ यथासम्भवमेतेषा-मष्टधा करणं मतम् । एतेषामुदयादिः स्याद्, द्रव्यक्षेत्रादिभेदतः ।।१०७॥