________________
१७७
ज्ञानदर्शनचारित्र-प्रभृतिः स्याद् यथायथम् । क्षयोपशान्तिभावेन, चैतेषामेव कर्मणाम् ॥१०८॥ चतुर्विधा अमुक्ताः स्यु-र्नारकादिप्रभेदतः । रत्नप्रभादिभेदेन, नारकाः सप्तधा मताः ॥१०९॥ पञ्चाक्षा एव विज्ञेया--मुक्त्वा तियकशरीरिणः । .. एकेन्द्रियादिभेदेन, लियेश्चः पञ्चधा स्मृताः ॥११०॥ आद्याः पृथ्वीपयस्तेजो-वरेण्युवनभेदतः ।। सूक्ष्माश्च बादराश्चैते, द्वीन्द्रियाद्या अनेकधा ॥१११॥ गर्भजेतर भेदेन, द्विधा च मनुजा मताः । . भवनपत्यादिभेदेन, देवताश्च चतुर्विधाः ॥११२॥ पर्याप्तेतरभेदेना-ऽमी सर्वे द्विविधा मताः । पर्याप्तिरात्मनः शक्ति-विशेषः सा च षड्विधा ॥११३॥ सर्वेऽमी ससमुद्घाताः, सलेश्याश्च सयोगिनः । यथार्हस्थानिनः प्रोक्ताः, सर्वभावप्रदर्शिभिः ॥११॥ वेदनादिसमुद्घाताः, संप्त शास्त्रे प्रकीर्तिताः । लेश्याः कृष्णा च नीला च, कापोती तैजसी तथा ॥११५॥ पद्मा शुक्ला च; योगास्तु, त्रय एव प्रकीर्तिताः। मनोयोगो वचोयोगः, सत्यादि कश्चतुर्विधः ॥११६॥ सप्तधा काययोगः स्यात् , काय औदारिकस्तथा । वैक्रियश्चाहारकश्च, तैजसः कार्मणस्तथा ॥११७॥ तिर्यञ्चश्च मनुष्याश्च, ज्ञेया औदारिका भिनः । नारकाश्च सुरा लब्धि-मन्तो वैक्रियकायिनः ॥११८॥ वपुश्चाहारकं शुद्धं, स्याच्चतुर्दशपूर्विणाम् । तैजसं कार्मणं च स्या-दाभवं सर्वदेहिनाम् ।।११९॥ रत्नप्रभादिपृथ्व्यः स्यात् , स्थानं नारकदेहिनाम् । विमानाध्यासिनो देवा-स्तियञ्चः सर्वलोकगाः ॥१२०॥