________________
१७८
आपुष्करार्धमा स्थानं, मनुष्याणां मतं जिनैः । जम्बूद्वीपादयो द्वीपाः, समुद्रा लवणादयः ॥ १२१ ॥ एवं च पुद्गला ज्ञेया - रूपिणः परिणामिनः । दशधा परिणामश्व बन्धनादिप्रकारतः ॥ १२२॥ स्निग्धरूक्षप्रभेदेन भावितं बन्धनं द्विधा । स्पृशन्ती चास्पृशन्ती च गतिरेवं द्विभेदिनी ॥ १२३॥ संस्थानं पञ्चधा तत्र, परिमण्डलमादिमम् । वृत्तं त्र्यनं चतुरस्र-मायतं चैव कीर्तितम् ॥ १२४ ॥ पञ्चधैवं च भेदः स्यात्, खण्डश्च प्रतरस्तथा । चूर्णिकोऽनुतटिका चोत्करिका तत्र पञ्चमः ॥ १२५ ॥ - वर्णोऽप्येवं स चैवं स्यात्, कृष्णो नीलश्व रोहितः । पीतः शुक्लश्च गन्धव, सुरभिश्वा सुंरभिर्द्विधा
( सुरभ्यसुरभी द्विधा ) ॥ १२६॥ तिक्तश्च कटुकश्चैव कषायचा म्बलस्तथा । मधुरश्चेति विज्ञेयो, रसः पञ्चविधः खलु ॥ १२७॥ स्पर्शा अष्ट मताश्चैवं, कर्कशश्च मृदुर्गुरुः । लघुरेवं च शीतोष्णौ, स्निग्धरूक्षौ तथैव च ॥ १२८॥ अगुरुलघुराख्यात एकाकारो बुधेश्वरैः । शब्दाख्यः परिणामस्तु, भाव्यतेऽथो विपश्चिमः ॥ १२९॥ सद्विधा वा चतुर्धा च द्विधा तत्र विभाव्यते । शुभाशुभतया यद्वा, वैत्रसिकः प्रयोगजः ॥ १३० ॥ ततश्च विततश्चैव, घनव शुषिरस्तथा । सङ्घर्षश्चाथ भाषा च स्यात् षोढेति प्रयोगजः ॥ १३१ ॥
चतुर्भेदाश्च तत्र स्यु- र्विमुच्यान्तिमयुग्मकम् । पुद्गलानां परिणामाः, संक्षेपादित्युदाहृताः ॥ १३२॥ -