________________
एवं छायातपोद्योता-दयोऽप्यागमवेदिभिः । पुद्गलानां परिणाम-विशेषाः परिकीर्तिताः ॥१३३॥ अथ निरूप्यते कालो, वर्तनालक्षणः स च । परिणामा नवत्वाद्या, वर्तना त्वभिधीयते ॥१३४॥ सार्द्धद्वीपद्वयाम्भोधि-द्वैतमानः प्रकीर्तितः ।। एक एवास्त्ययं कालो, वर्तमानः स वास्तवः ॥१३५॥ कल्प्यन्ते व्यवहारार्थ, पुनरावलिकादयः । समयानामसङ्ख्याना-मेका साऽभिहिता बुधैः ॥१३६॥ समयस्त्वविभाज्योऽति-सूक्ष्मः कालः समीरितः । द्रव्यपर्यायरूपो वा, सोऽभिरूपैः प्रकीर्तितः ॥१३७॥ ताः सङ्ख्येयाँ भवेदेक-उच्छ्वासश्च बलीयसः । ताभ्यां द्वाभ्यां भवेत् प्राणः, स्तोकः स्यात् तैश्च सप्तभिः ॥१३८॥ तावद्भिस्तैर्लवः प्रोक्तः साष्टिात्रिंशता च तैः । नालिकैका भवेद् द्वाभ्यां, ताभ्यां मुहूर्त ईरितः ॥१३९॥ त्रिंशता तैरहोरात्र-एवमग्रेऽपि विस्तरः । एवं निरूपितं द्रव्यं, पर्यायोऽथो निरुच्यते ॥१४॥ स. द्वेधा सहभाव्याद्यः, क्रमभावी द्वितीयकः। . संज्ञा विशेषतश्चेमौ गुणः पर्याय इत्यथ ॥१४१॥ तत्रास्तित्वं च वस्तुत्वं, द्रव्यत्वं च प्रमेयता ।। तथाऽगुरुलघुत्वं च, प्रदेशत्वं तथैव च ॥१४२॥ ज्ञानं च दर्शनं सौख्यं, वीर्यस्पर्शी रसस्तथा। गन्धवौँ तथा ज्ञेयो, गतिहेतुत्वकं तथा ॥१४३॥ स्थित्यवगाहहेतुत्वं, वर्तना हेतुता तथा। चेतनत्वाचेतनत्वे, मूर्त्तत्वामूर्त्तते इति ॥१४ ४॥ विज्ञेयाः षट्र च सामान्या-स्तत्रास्तित्वाद यो गुणाः । विशेषा द्वादश प्रोक्ता, बुधैर्ज्ञानादिका गुणाः ॥१४५॥