________________
१८०
सामान्याश्च विशेषाश्च, चेतनत्वादयो मताः। पर्यायश्च द्विधा द्रव्य-गुणपर्यायभेदतः ॥१४६॥ मनुष्यत्वादिराधः स्याद्, नीलादिद्वितीयो मतः । एवमन्यप्रकाराच्च, पर्यायाणां भिदा मताः ॥१४७॥
जयति श्रीजिनवीरो, यच्छिष्येण सुधर्मणा । ... प्रत्यष्ठापि प्रभावाढयो, गच्छो निर्ग्रन्थनामकः ॥१४८॥ विबुधैर्विहितावासो, मध्यस्थभावभावितः । अनुत्तरस्तपागच्छो, महामेरूपमोऽस्ति यः ॥१४९॥ निम्रन्थगच्छ एवायं, जगच्चन्द्रप्रभोरनु । तपागच्छाख्यया लोके, बभूव सुप्रसिद्धिभाक् ॥१५०॥ आचार्यों नेमिसूरीश-स्तद्गच्छाम्भोधिचन्द्रमाः ।। सर्वशास्त्रस्य यो वेत्ता, जेता यो सर्ववादिनाम् ॥१५१॥ यत्पादाम्भोजभक्त्यैव, चरणस्थैर्यमाप्नुवम् । . दर्श नज्ञानदाता च, जयत्ययमनुत्तरः ॥१५२॥ तत्पादाब्जप्रभावेण, प्राज्ञवाचीऽनुसृत्य च । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा ॥१५३।। पदार्थकथनं किञ्चित् , कृत बालसुबोधकृत् । . परमार्थपरैः प्राज्ञैः, शोध्यं तच्च सुचेतसा ॥१५४॥ संवत्सरे शरहयाङ्कविधुप्रमाण-आषाढमाससितपक्षदिने द्वितीये । श्रीभाजि राजनगरे नगरप्रधाने, मुक्तावलेविरचनग्रथनं प्रपूर्णम् ॥१५५॥ जैनमुक्तावली कृत्वा, सुकृतं यन्मयाऽर्जितम् । सुखी भवतु लोकोऽयं, तेन पुण्येन हेतुना ॥१५६॥
इति श्रीजैनमुक्तावली ॥