________________
परिशिष्टम् ३ तार्किकचूडामणि-विद्यावाचस्पति पण्डित श्रीशशिनाथ झा शर्मणा प्रणीतो
निक्षेपविचारः ॥ ननु प्रमाणनयपरिच्छेद्यानां तत्त्वानां विशेषतोऽधिगमाय व्याख्याङ्गतया निक्षेपाः समये नामस्थापनाद्रव्यभावभेदेन चत्वारो निर्दिष्टाः; तत्र निक्षिप्यन्तेस्थाप्यन्ते इति निक्षेपा इति निरुक्तिरपि तत्र तत्रादृता; एतादतेदन्तावन्निक्षेपत्वमिति विशेषतो नावध रयितुं शक्यते ।
न च कर्मप्रत्ययान्त 'निक्षिप्यन्त' इत्यनेन स्थापनाकर्मत्वरूपतया निष्टङ्कितमतो नाऽनवधारणांशलेशोऽपीति वाच्यम् । न हि पर्यायसहस्रोक्तावपि स्वरूपतो घटत्वस्य घटपदप्रवृत्तिनिमित्तस्याऽपरिच्छेदे घटपदादर्थविशेषावगतिः । एवं को निक्षेपः, का वा स्थापना इत्येवं जाग्रति संशये निक्षेपकर्मत्वं स्थापनाकर्मत्वमित्यादिपर्यायान्तरघटितवचनसहस्रेणाप्यसन्दिग्धासाधारणस्वरूपप्रतिपत्तेरनुदयात् ।
न च सङ्के- विशेषसम्बन्धेन निक्षेपपदवत्त्वमेव निक्षेपत्वं; शास्त्रकाराणां नामस्थापनाद्रव्यभावेषु निक्षेपपदस्य सङ्केतो विद्यत इति सुघटं निक्षेपत्वस्यावधारणमिति वाच्यम् । नामादिषु चतुएं प्रवृत्तिनिमित्तस्यैकस्यावधारणं विना सङ्केतस्यैव कर्तुमशक्यत्वात् । न च हर्यादिपदवन्नानार्थक एवायं 'निक्षेप' शब्द इति नामत्वादिकं प्रत्येकमस्य प्रवृत्तिनिमित्तमिति तत्तद्रूपावच्छिन्ने निक्षेपपदस्यसङ्केतः कर्तुं शक्यत इति वाच्यम् । व्याख्याङ्गत्वाविशेषे सत्सङ्ख्यादिषु न निक्षेपपदस्य सङ्केतो नामादिषु च सङ्केतः कृत इत्यस्य विनिगमकमन्तरेण नियन्तुमशक्यत्वात् । . यथा च घटपटादिपदानामनादिकालतो लोकव्यवहारशास्त्रानुस्यूतानां सङ्केतः प्रतिनियतार्थगोचरोऽनादिकालत एवागतो न पर्यनुयोगपात्रं, नैवं निक्षेपपदसङ्केतः; तस्याऽऽर्हतसिद्धान्त एव सुदृढनिरूढत्वादतो भवितव्यं केनचित्र विनिगमकेनेति चेत् । -