________________
१८२ अत्रोच्यते । यथा वाक्यरचनां प्रति वाक्यार्थज्ञानत्वेन कारणत्वेन ‘सन्नेव घट' इति वाक्यं प्रति ‘सन्नेव घट' इति दुर्नयरूपवाक्यार्थज्ञानस्य, 'सन् घट' इति वाक्यं प्रति ‘सन् घट ' इति सुनय (नय) रूपवाक्यार्थज्ञानस्य, 'स्यात् सन् घट' इति वाक्यं प्रति ' स्यात् सन् घट' इति प्रमाणरूपवाक्यार्थज्ञानस्य च कारणत्वमिति वाक्यविशेषरूपव्याख्यां प्रत्यपि प्रमाणनययोः कारणत्वमेतच्च व्याख्यास्वरूपाप्रविष्टतयैव तन्निष्पादकत्वमिति न व्याख्याङ्गताव्यपदेशमर्हति । विशेष्यविशेषणभावप्रतिपादनमुखेन प्रवर्तमानवाक्य सन्दर्भरूपव्याख्यानस्य यद्विशेष्यस्वरूपाविभावकं यच्च विशेषणस्वरूपोपदर्शकं तद् व्याख्यानस्वरूपघटकतया (व्याख्यानविषयिताव्यापकविषयिताकतया) अवयविस्वरूपसन्निविष्टावयववत् अङ्गभावं बिभर्ति । तत्र विशेषण स्वरूपाविर्भावकतया सत्सङ्ख्यादीनामङ्गतंया व्याख्यानद्वारता, नामादीनां तु न विशेषणस्वरूपाविर्भावकतया, किन्तु कर्मधारयसमासैकनिविष्टविशेष्यभावापन्नवस्त्वभिधायकपदमात्राव्यवहितपूर्ववर्तितया विशेष्यस्वरूपविशेषविवेचनलक्षणविशेष्यस्वरूपाविर्भावकतया । एवं च कर्मधारयवृत्तिसमभिव्याहाराश्रयविशेष्यभावापन्नवस्त्वभिधायकपदमात्राव्यवहितपूर्ववर्तिवस्तुत्वव्या . पकधर्मावच्छिन्नाशक्तविशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलवचनत्वं निक्षेपत्वमिति सामान्यलक्षणम् ।
इदं च लक्षणं नामस्था(नाद्रव्यभावेषु समनुगतम् । तथा हि-'नामघट' इस्यादिस्वरूपे निक्षेपे कर्मधारयवृत्तिः; समभिव्याहारो नामघटत्वादिः; तदाश्रयो यद् विशेष्यमावापन्नवस्वभिधायकमात्रस्य घटादिपदादेव्यवहितपूर्ववर्ति तन्नामपदादि, तद्वस्तुत्वव्यापकसत्त्वादिधर्मावच्छिन्नाशक्तं सत् विशेष्यवस्तुस्वरूपविशेषाविर्भावनप्रत्यलमपि; यतो विशेष्यवस्तु घटादि, तस्य यः स्वरूपविशेषो नामघटादिः, तदाविर्भावनप्रत्यलत्वं घटाद्यव्यवहितपूर्ववर्त्तिनामपदे समस्ति, तथाभूतं वचनं नामपदं, तत्त्वं नामपदे समस्तीति लक्षणसमन्वयः । एवं स्थापनादव्यभावेष्वपि । 'नामघट' इत्यादौ कर्मधारयसमास एव नामनिक्षेपप्रवृत्तिरिति बोधयितुं कर्मधारयवृत्तिसमभिव्याहाराश्रयेत्युक्तम् । 'मृद्घट' इत्यत्र 'मृत्' पदस्य