________________
पक्षाभासास्त्रयस्तत्र, मध्यमोऽनेकभेदभृत् । प्रत्यक्षप्रमुख़र्यस्मात् , साध्यधर्मनिराकृतिः ॥८४॥ हेत्वाभासः परिज्ञेयो, भाषितो मुनिपुङ्गवः । असिद्धश्च विरुद्धश्चा-ऽनैकान्तिक इति त्रिधा ॥८५॥ अप्रतीतस्वरूपः स्या-दसिद्धो द्विविधः स च । उभयासिद्ध आद्यश्चा-ऽन्यतरासिद्धकोऽपरः । ८६॥ साध्यविपर्ययव्याप्तो, विरुद्धः प्रथितो भुवि । अन्यथानुपपत्तेश्च, सन्देहात् स्यात् तृतीयकः ॥८७॥ विपक्षवृत्तिसन्देह-निर्णयान्यां द्विधाऽस्ययम् । चतुर्धा पञ्चधा चैव, हेत्वाभासो मतोऽपरैः ॥८८॥ अकिञ्चित्करयोगेन, चतुर्धा यन्मतोऽपरैः । तन्नाऽप्रयोज़कात्मा हि, पक्षाभासः स कीर्त्यते ॥८९॥ एवं सत्प्रतिपक्षश्च, बाधश्च नाऽतिरिच्यते । असिद्धाऽनतिरिक्तत्वा-दिति जैनमतं मतम् ॥९०॥ दृष्टान्ताभास आख्यातो, द्विविधो धौतकल्मषैः । एकैको नवधा चैव-माभासान्तरमूह्यताम् ॥९१॥ स्यात्प्रमाणैकदेशत्वाद्, भिन्नः प्रमाणतो नयः । द्रव्यार्थिको मतः पूर्वोऽन्यः पर्यायार्थिको बुधैः ॥९२॥ नैगमश्च सङ्ग्रहश्च, व्यवहार इति त्रिधा । आद्योऽपरश्चतुर्धा स्यात् , प्रथम ऋजुसूत्रकः ॥९३॥ शब्दः समभिरूढः स्या-देवम्भूनश्चतुर्थकः । एतेष्वर्थनयाः केचित् , केचिच्छब्दप्रधानकाः ॥९४॥ विपरीतो नयाभासः, फलादिकं च पूर्ववत् । शब्दार्थरचनारूपो, निक्षेपश्चाथ भाव्यते ॥९५॥