________________
वाक्यं स्याच्च पदानां तु, वचनं तत्त्रयात्मकम् । सामर्थ्यमथ शक्तिः स्यात् सङ्केतः समयो मतः ॥७२॥ ताभ्यां स्वाभाविकाभ्यां स्या-छब्दोऽर्थस्य विबोधकृत् । अयं विधिनिषेधाभ्यां, लभते भङ्गसप्तकम् ॥७३॥.. अनन्तत्वेऽपि धणां, सप्तभङ्गयेव यन्मता। तद्धि पर्यनुयोगानां, सप्तानामेव सम्भवात् ॥७४॥ सकलादेशरूपान्य-रूपाभ्यामुदिता द्विधा । . . कथ्यते विषयश्चाथ, परिच्छेद्यं च गोचरः ॥७५॥ अनेकान्तात्मकं वस्तु, सामान्येतरमुख्यकम् । तद्गोचरश्च तद् द्वेधा, तिर्यगूलत्वभेदतः ॥७६॥ विशेषोऽपि द्विधा प्रोक्तो, गुणपर्यायभेदतः । . . सहभावी गुणो धर्मः, क्रमभावी तथा परः ॥७७॥ फलं चाथ प्रमाणस्य, द्विविधं परिकीर्तितम् । अनन्तरफलं त्वाद्यं, परम्परफलं परम् ॥७८॥ फलमज्ञाननिवृत्तिः, सर्वेषामादिमं मतम् । । आदानत्य ननोपेक्षा-बुद्धयश्चाऽपरं फलम् ॥७९॥ केवलस्य तु विज्ञेय-मौदासीन्यं फलं परम् । तत् स्यादभिन्नमभिन्नं च, प्रमाणाच्च प्रमातृतः ॥८०॥ क्रियाक्रियावतोर्यस्माद्-भेदाभेदविभूषिता । कर्ता हि साधकः प्रोक्त-स्तन्निवा भवेत् क्रिया ॥८१॥ प्रमाणादिव्यवहृति-रियं स्यात् पारमार्थिकी । संवृत्त्या तदुरीकारे, स्वेष्टसिद्रिविरोधिता ।।८२॥ एवं प्रमाणमाख्यातं, स्वरूपादि चतुष्टयम् । विपरीतस्तदाभासो, विशेषस्तु प्रदर्यते ॥८३॥