________________
उपनयो निगमनं, यथासङ्खचमथोच्यते । साध्यधर्मिणि यद्धेतोः, माध्यधर्मस्य वा पुनः ॥६॥ उपसंहरणं चैव, तान्यवयवसंज्ञया । पश्चाप्यत्र प्रसिद्धानि, पण्डितानां प्रयोजने ॥६१॥ उपलब्ध्यनुपलब्धि-भेदाद्धेतुर्द्विधा मतः । विधिनिषेधयोरेतौ, क्रमात् सिद्धिनिबन्धने ॥६२॥ सदंशोऽत्र विधिज्ञेयः, प्रतिषेधोऽसदंशकः । चतुर्विधः स विज्ञाना-मुत्तमैः परिकीर्तितः ॥६३॥ पूर्वप्रध्वंसकान्योन्या-त्यन्ताभावप्रकारकः । ज्ञेयः सोऽथोपलब्धिश्च, प्रभेदेन प्रदर्श्यते ॥६४॥ अविरुद्धा विरुद्धा च, तत्राद्या षविधा मता। सा साध्येनाऽविरुद्धानां, व्याप्यादीनां विभाविता ॥६५॥ सप्तधाऽन्या समाख्याता, स्वभावादविरोधिनी । तथैवाऽनुपलब्धिः स्याद्, द्विधापि नवरं विदम् ॥६६॥ • विरुद्धानुपलब्धिश्च, पञ्चभेदा विभाविता। . इतरा सप्तधा ज्ञेया, क्रमाद् विधिनिषेधकृत् ॥६७॥ अभिधेयानि वस्तूनि, यो जानीते यथास्थिति । अभिधत्ते यथाज्ञानं, स आप्तोऽयं द्विधा मतः ॥६८॥ लौकिको जनकादिः स्या-ल्लोकोत्तरश्च तीर्थकृत् । तेषां ह्येव वचः शून्यं विसंवादेन दृश्यते ॥६९॥ आविर्भूता च तद्वाचोऽर्थसंविन्मत आगमः । उपचाराद्भवेदाप्त-वचनं वक्ष्यतेऽथ तत् ॥७॥ आदिः पौद्गलिको वर्णो, वर्णानां निरपेक्षिका । अन्योन्यापेक्षकाणां च, पदं संहतिरुच्यते ।।७१॥