________________
શ્કર
जन्यत्वं तु शरीरेणो-पाधिना समलङ्कृतम् । इति प्रत्यक्षमाख्यातं, परोक्षं चाथ कथ्यते ||४८॥ तदस्पष्टं समाख्यातं, पञ्चधा पूर्वपण्डितैः । तत्प्रपञ्चोऽथ विज्ञेयो, वक्ष्यमाणो यथानयम् ॥ ४९ ॥
संस्कारबोधसम्भूतमनुभूतार्थगोचरम् । तदिव्याकारकं ज्ञानं, स्मरणं कथितं बुधैः ॥ ५० ॥
तिर्यगूर्ध्ववसामान्य - प्रनृत्यालम्बनं
तथा ।
सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानमिष्यते ॥ ५१ ॥ त्रिकालवर्त्तिनोर्यः स्यात्, सम्बन्धादिस्तदालम्ब-मूहापर सुनामकम् (मूहेत्यपरनामकम् ) ॥ ५२ ॥
साध्यसाधनयोः खलु ।
उपलम्भेतरोद्भूतं, विज्ञानं परिकीर्त्यते ।
सत्येवास्मिन्निदं चेति, तर्कस्ता र्कि कशेखरैः ॥५३॥
अनुमानं द्विधा स्वार्थ, परार्थं चादिमं त्विदम् । हेतुग्रहणसम्बन्ध - स्मृतिहेतुकसाध्यवित् ॥ ५४ ॥ हेतुश्च निश्चितान्यथा - नुपपत्त्येक लक्षणः । अन्यथानुपपत्तिश्च साध्यधर्मेण गृह्यते ॥ ५५ ॥
1
अप्रतीतं च साध्यं स्या-दनिराकृत मीप्सितम् । विषयभागात् साध्यत्वं भिन्नं भिन्नमुदाहृतम् ॥ ५६ ॥ पक्षहेतुवचोरूपं परार्थमुपचारतः ।
दृष्टान्ताद्यत्र नैवाङ्गं, वस्तुतो हेतुरेव च ॥ ५७ ॥ क्वचित् प्रयुज्यते नाम, दृष्टान्तादिरिहापि च । स्याद् दृष्टान्तोऽविनाभावप्रतिपत्तेः किलास्पदम् ॥ ५८ ॥ द्वेधोक्तोऽथ स साधर्म्य–वैधर्म्याभ्यां सुधीमुखैः । अन्तर्व्याप्तिर्बहिर्व्याप्ति-वेति व्याप्तिर्द्विधा मता ॥ ५९॥