________________
१७३
स्पर्शरसगन्धवर्ण-शब्दा अनुक्रमादिमे । एतेषां विषया ज्ञेया, वक्ष्यन्तेऽधश्च तद्विधाः ॥३६॥ अनिन्द्रियं मनो द्वैधं, द्रव्यभावप्रकारतः । एतद् द्वयं भवेद् द्वेधा, मतिश्रुतवि कल्पतः ॥३७॥ स्याच्छूताऽननुसार्याद्य-मितरे चेतरे मतम् । अवग्रहादि का प्रोक्ता, चतुर्धेव मतियतः ॥३॥ ईहा स्यात् संशयाद् भिन्ना, संशयोत्तरभाविनी । क्रमश्चैष तथा हेतु-क्षयोपशमभावतः ॥३९॥ श्रुतज्ञानं समाख्यातं, चतुर्दशविधं जिनैः । अक्षरं संज्ञि सम्यक् च, सादि सान्तं तथा गमि ॥४०॥ एवमङ्गप्रविष्टं च, प्रतिपक्षान्वितं मतम् । सांव्यवहारिकं प्रोक्तं, मयैवं च यथामति ॥४१॥ पारमार्थिकमुत्पत्ता-वात्ममात्रसमाश्रितम् । विकलं सकलं चाद्य-मवधिर्मनआख्य कम् ॥४२॥ विशिष्टावृतिविच्छेदा-दवधी रूपिगोचरः । मनःपर्यायकं ज्ञानं, हृदयमात्रगोचरम् ॥४३॥
अनेकर्द्धिनिधानानां, शुद्धसंयमशालिनाम् । • आपुष्करार्द्धमाख्यातं, संज्ञिनां चित्तवेदकम् ॥४४॥
अवधिज्ञानमेवेद-माहुर्नव्या महाशयाः । सूत्रे भेदाभिधानं च, धर्मभेदाभिप्रायतः ॥४५॥ घातिकर्मक्षयोद्भूतं, सर्वभावप्रकाशकम् । केवलज्ञानमाख्यातं, सकलं सकलं सदा ॥४६॥ तद्वतो दोषमुक्तत्वा-दर्हत्त्वं प्रतिपादितम् । तस्माच्च तत्र नैवेष्टा, क्षित्यादीनां तु कर्तृता ॥४७॥