________________
२७०
प्रमाणं च तदेव स्यात् , स्वपरव्यवसायकम् । व्यवसायस्वभावं तत् , पण्डितैः परिकीर्तितम् ॥२४॥ यतस्तस्यास्ति प्रामाण्यं, समारोपविरोधिता । समारोपोऽतस्मिँस्तद-ध्यवसायोऽधिगम्यताम् ॥२५॥ विपर्ययः संशयोऽन-ध्यवसाय इति त्रिधा। . अधिज्ञेयः स तत्रायो, विपर्ययः प्रदर्श्यते ॥२६॥ विपरीतककोटेः स्या-निष्टङ्कनं विपर्ययः । भवेद् यथा शुक्तिकायां, रजताकारतामतिः ॥२७॥ : तत्संशयोऽनवस्थिता-नेककोट्यवलम्बि यत् । ज्ञानं साधकबाधक-प्रमाणाऽनुपलम्भतः ॥२८॥ यथा स्थाणुरयं किं वा, भवेद्वा पुरुषश्च किम् ।। अथानध्यवसायस्य, स्वरूपं किश्चिदुच्यते ॥२९॥ स विद्वद्भिः समाख्यातः, किमित्यालोचमात्रकम् । ज्ञानं यत्तद्यथा गच्छ-तृणस्पर्शस्य शेमुषी ॥३०॥ तच्च द्विधाथ प्रत्यक्षं, परोक्षं तत्र चादिमम् । स्पष्टं तत् , स्पष्टता तत्र, यद्विशेषप्रकाशनम् ॥३१॥ सांव्यवहारिकं पार-मार्थिकत्वेन तद् द्विधा । सांव्यवहारिकं तत्रे–न्द्रियाऽनिन्द्रियहेतुकम् ॥३२॥ इन्द्रियमिन्द्र लिङ्गं स्या-दिन्द्रदृष्टं तथैव च । इन्द्रसृष्टमिन्द्रजुष्ट-मिन्द्रश्चात्मा प्रकीर्तितः ॥३३॥ तच्चोक्तं पञ्चधा स्पर्श-जिह्वाघ्राणाक्षिकर्णतः । द्विधा तद् द्रव्यभावाभ्यां, ते द्वे एवं द्विधा मते ॥३४॥ निर्वृतिरुपकरणं, द्रव्यतस्तत्र भाव्यताम् । लब्धिश्चाथोपयोगश्च, भावतः परिभावितम् ॥३५॥