________________
एवं जीवोऽपि विज्ञेयो-विशेषस्तूपदर्यते । अविभुः सक्रियश्चाथा-नेकद्रव्यं वपुर्मितः ॥१२॥ चिनं चास्योपयोगः स, साकारेतरभेदतः । द्विविधः स यथासङ्ख्यं, पुनश्चाष्ट चतुर्विधः ॥१३॥ मतिश्रुतावधिमनः-पर्यवकेवलानि हि । मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमेव च ॥१४॥ • इत्यष्टधा चतुर्धा च श्रूयंतामत्र कथ्यते । चक्षुरचक्षुरवधि-केवलदर्शनं तथा ॥१५॥ मतिश्चतुर्विधोक्ताव-ग्रहेहापायधारणाः । तत्र चावग्रहो द्वैधं, व्यञ्ज नार्थप्रभेदतः ॥१६॥ ईहाप्रभृतयस्तु स्यु-द्यर्थस्यैवाद्यवग्रहः । स्पर्शजिह्वाघ्राणकर्ण-प्रभेदेन चतुर्विधः ॥१७॥ चक्षुर्मनोविधाधिक्यात् , षोढाऽर्थावग्रहादयः । द्वादशधा पुनः सर्वे, प्रत्येकं परिकीर्तिताः ॥१८॥ बहुबहुविधक्षिप्रा-ऽनिश्रितनिश्रितध्रुवाः । सेतरा इति षत्रिंशत् , त्रिशतप्रभिदा मतिः ॥१९॥ मतिपूर्वं श्रुतं द्वैध-मङ्गबाह्य प्रविष्टकम् । अनेकभेदं तत्राद्यं, ज्ञेयं सामायिकादिकम् ॥२०॥ अङ्गप्रविष्टमा चारा-ङ्गादि द्वादशधा मतम् । द्विधाऽवधिर्भवहेतुः, क्षयोपशमहेतुकः ॥२१॥ द्वितीयस्तत्र विज्ञेयः, षड्विकल्पसमन्वितः । आनुगामिवर्द्धमाना-ऽवस्थितेतर भेदतः ॥२२॥ मनःपर्यायकं नाम, ज्ञानं द्विविधमिष्यते । ऋजुमतिविपुलधीः, केवलं केवलं मतम् ॥२३॥