________________
परिशिष्टम् २ श्रीजैनमुक्तावली-मूलकारिकाः ॥ प्रणमामि महावीरं, चरमं तीर्थनायकम् । सच्चिदानन्दसम्पूर्ण, भव्याभीष्टार्थदायकम् ॥१॥ वन्दे श्रीगौतमं देवं, देवतासङ्घसेवितम् ।। निःशेषलब्धिसम्पन्नं, प्रथमं गणनायकम् ॥२॥ .. श्रीमच्छमणसङ्घस्या-धीश्वरं योगशालिनम् । परमप्रौढसाम्राज्यं, नेमिसूरि प्रणौमि तम् ॥३॥ सूरेभगवतस्तस्य, पादसेवानुभावतः । जैनमुक्तावली काचिद् , विधियाऽपि विरच्यते ॥४॥ द्रव्यपर्यायभेदेना-ऽनेकभेदसमन्वितौ ।। सत्पदार्थों समाख्यातौ, कृत्स्नभावप्रकाशिभिः ॥५॥ धर्माऽधर्मनभोजीव-पुद्गलानेहसंस्तथा। द्रव्याणि गुणपर्याय-वत्त्वं तत्त्वमुदाहृतम् ॥६॥ गत्युपकारकोऽसङ्ख्य-प्रदेशोऽरूपिनिष्क्रियः । एकद्रव्यं समाख्यातो, धर्मो धर्मोपदर्शिभिः ॥७॥ तथैवाऽधर्म आदिष्टः, परं स्थित्युपकारकः । अवगाहद आकाशो, वस्तूनामवगाहिनाम् ।।८॥ अनन्तोऽयं प्रदेशैश्च, लोकालोकविभागभाक् ।। तदसङ्ख्येयभागादि-प्वात्मनामवगाहना ॥९॥ आसमस्ताच्च लोकात् सा-ऽजीवानां त्ववगाहना । मू-मूर्तप्रभेदेन, द्विविधाद्यावगाहना ॥१०॥ एकप्रदेशमुख्येष्व--प्युक्ताऽन्या तत्र सर्वतः । .. प्रदेशानां हि संहार-विसर्गौ स्तः प्रदीपवत् ॥११॥