________________
श्रीमद्वीरजिनो जीयात् , सल्लब्धिौतमः प्रभुः । यद्वचःसुधया सिक्ता विबुधा अमराः सदा ॥१॥ साम्राज्यं यस्य प्रौढप्रकटमहिमसज्ज्ञानकर्मप्रधानं, स्याद्वादाध्यात्मरम्या मितिनयविशदा शुद्धभावा च पाणी । सोऽयं प्रोदामधामा परमगुणनिधिः सर्वतन्त्रस्वतन्त्रः, स्वप्ने वा जागरे वा शरणमनुदिनं नेमिसूरिममास्तु ॥२॥ श्रीतपागच्छराजस्य तस्य पट्टनभोमणिः । विजयोदयसूरीशः तस्य पट्टमृता मया ॥३॥ गुप्त्यष्टाकेन्दुवेष श्रीवीरकैवल्यवासरे । सूरिणा नन्दनेनायं निर्मितस्तर्कसङ्ग्रहः ॥४॥
इति श्रीसर्वतन्त्रस्वतन्त्र शासनसम्राट् सूरिचक्रचक्रवर्ति जगद्गुरु श्रीप्रज्ञप्त्यादिसकलयोगोद्वहनसूरिमन्त्रसमाराधनपूर्वकप्राप्तसूरिपद विद्यापीठादिप्रस्थानपञ्चकसमाराधक श्रीशत्रुञ्जयादिमहापवित्रतीर्थसंरक्षणपरायण प्रथित न्यायव्याकरणाद्यनेकग्रन्थसन्दर्भ तपागच्छाधिराज भट्टारकाचार्यवर्यश्रीमद्विजयनेमिसरिभगवत्पट्टालङ्कार सिद्धान्तवाचस्पति न्यायविशारद विजयोदयसरिपट्टालङ्कार विजयनन्दनचरिणा विरचितः श्रीजैनतर्कसङ्ग्रहः॥ .. लिखितश्चायं ग्रन्थः वस्वष्टाङ्केन्दुप्रमिते वैक्रमसंवत्सरे मृगशीर्षासितपक्षपञ्चम्यां श्रीगोधावीनगरे श्री जयतारण वास्तव्य दीपचन्द्रसूनुशिवराजनाम्ना लेखकेन । शुभं भूयात् ॥ 3 ॥ श्रीः ॥