SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ હૃદ निमित्तभेदात् कारणं त्रिविधम् । संशयविपर्ययतर्क भेदादयथार्थानुभवस्त्रिधा । प्रयत्नः प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् त्रिधा । संस्कारो वेगो भावना स्थितिस्थापकश्च । तत्र " वायोर्नवैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश । दिकालयोः पञ्च षडेव चाम्बरे, महेश्वरेऽष्टौ मनसस्तथैव च ॥” इति ॥ तन्न, यथायथं पर्यायादिष्वन्तर्भावात् ॥७४॥ इति पर्यायखण्डः ॥ X महाव्रतानि पञ्च, प्राणातिपातमृषावादाऽदत्तादानमैथुनपरिग्रहविरतिरूपाणि ॥७५॥ प्राणातिपातादयः प्रत्येकं मनोवचः कायभेदात् करणकारणानुमतिभेदाच्च नवधा । ते चाश्रवाः । तद्विरतिः संवरः ॥ ७६ ॥ धर्मोऽहिंसा संयमस्तपः ॥ ७७ ॥ गृहिधर्मः साधुधर्मश्चेति द्विधा ॥७८॥ गृहिणां देशतो विरतिः साधूनां सर्वतः ७९ ॥ श्रद्धानं सम्यग्दर्शनं शमाद्यभिव्यङ्गयः शुभात्मपरिणामः ॥ ८० ॥ औपशमिक क्षायोपशमिकं क्षायिकमिति तत् त्रिधा ॥ ८१ ॥ तत्प्रागवस्थो बहिरात्मा । तद्वान् अन्तरात्मा प्राकैवल्यात् । केवली परमात्मा ॥ ८२ ॥ तत्रान्तरात्मा ध्याता । परमात्मा ध्येयः । ऐकाय संवित्तिर्ध्यानम् । ध्येयैकता समापत्तिः ॥ ८३॥ ज्ञानपूर्वक कर्मयोगाद् ध्यानयोगः । ध्यानयोगान्मुक्तियोगः ॥ ८४ ॥ इति धर्मनिरूपणान्तः खण्डः ॥
SR No.002251
Book TitleJain Tark Sangraha Jain Muktavali cha
Original Sutra AuthorN/A
AuthorVijaynandansuri
PublisherGodi Parshwanath Jain Temple Trust
Publication Year1982
Total Pages276
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy