________________
स्कन्धदेशप्रदेशपरमाणुभेदाच्च पुद्गलश्चतुर्धा । तत्र परमाणुरप्रदेशः ॥६९॥
वर्त्तनालक्षणः कालः । नवपुराणादिपरिणामा वर्तना। आवलिकादयश्च व्यवहारार्थं कल्प्यन्ते ॥७०॥
इति श्री जैनतर्कसङ्ग्रहे द्रव्यखण्डः ॥
पर्यायो द्विविधः, क्रमभावी सहभावो च ॥७१।।
तत्र सहभाविपर्याया गुणा, यथाऽऽमनो विज्ञानव्यत्ति,शक्त्यादयः । क्रमभाविनः पर्यायास्त्वात्मनः, यथा सुखदुःखशोकहर्षादयः ॥७२॥
पर्याया अपि स्वभावविभावाभ्यां द्रव्यगुणाभ्यां च चतुर्भेदाः। तथा हि स्वभावद्रव्यव्यञ्जनपर्यायश्चरमशरीरात् किश्चिन्न्यूनसिद्ध पर्यायः । स्वभावगुणव्यञ्जनपर्याया यथा जीवस्यानन्त चतुष्टयरूपाः । विभावद्रव्यव्यञ्जनपर्याया गत्यादयः । विभावगुणव्यञ्जनपर्याया मत्यादयः ॥ पुद्गलस्यापि द्वयणुकादयो विभावद्रव्यव्यञ्जनपर्यायाः । रसरसान्तरगन्धगन्धान्तरादयो विभावगुणव्यञ्जनपर्यायाः । अविभागिपुद्गलपरमाणवः स्वभावद्रव्यव्यञ्जनपर्यायाः । वर्णगन्धर सैकैकाऽविरुद्धस्पर्शद्वये च स्वभावगुणव्यञ्जनपर्यायाः। एवमेकत्वपृथक्त्वसंख्यासंस्थानसंयोगविभागादयोऽपि पर्यायाः ॥ एवं सकलव्यक्त्यनुगतं सत्त्वं व्यञ्जनपर्यायः । प्रतिव्यक्त्यनुगतं चार्थपर्यायः । उत्पादव्ययध्रौव्ययोगात्मकं च सत् ॥७३॥
परे तु रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाऽपरत्वगुरुत्वद्वत्त्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारीचतुर्विंशतिर्गुणाः। रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च, अन्यत्रापाकजं नित्यमनित्यं च । परिमाणमणु महद् दीर्घ हूस्वं च । परत्वापरत्वे दिक्कृते कालकृते च । द्रवत्वं सांसिद्धिकं नैमित्तिकं च । शब्दो ध्वन्यात्मको वर्णात्मकश्च । बुद्धिः स्मृतिरनुभवश्व । अनुभवो यथार्थोऽयथार्थश्च । प्रत्यक्षानुमित्युपमितिशाब्दभेदाच्चतुर्विधोऽपि । तत्करणमपि चतुर्धा । (असाधारणं कारणं करणम् ।) समवाय्यसमवायि