________________
१६४
चतुर्थः । ५ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । ६ स्यान्ना रत्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । ७ स्यादस्त्येव स्यान्नास्येव स्यादवक्तव्यमेवेति क्रमतो विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तमः ॥ तत्र स्यात्-कथञ्चित् स्वद्रव्यक्षेत्रकालभावरूपेणाऽस्त्येव सर्वं कुम्भादि, न पुनः परद्रव्यक्षेत्रकालभावरूपेण । तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनाऽस्ति, नाऽऽप्यादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन, न कान्यकुब्जादित्वेन । कालतः शशिरत्वेन, न वासन्तिकादित्वेन । भावतः श्यामत्वेन, न रक्तादित्वेन । अन्यथेतररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् । इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत, प्रतिनियतस्वार्थाऽनभिधानात् । तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाधस्तित्वेनापि सर्वप्रकारेणाऽस्तित्वप्राप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्प्रतिपत्तये 'स्याद् ' इति शब्दः प्रयुज्यते । स्यात्-कथञ्चित् स्वद्रव्यादिभिरेवायमस्ति न परद्रव्यादिभिरपीत्यर्थः ॥६२॥
एकत्र वस्तुन्येकै कधर्मपर्यनुयोगवशादविरोधेन' व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गो ॥६३॥
प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुनः एकदेशग्राहिणस्तदितरांशाऽप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः । नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूलैवम्भूताः सप्त ॥६४॥ प्रमाणैकदेशत्वाच्चैषां ततो भेदः ॥६५॥ अत्र संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिस्तत्करणं सादृश्यज्ञानं उपमानमिति तु प्रत्यभिज्ञानान्तर्भावादेव न पृथगिति ॥६६॥
__ इति जैनतर्कसंग्रहे परोक्षखण्डः ।।
। कृष्णनीलरोहितपीतशुक्ला वर्णाः । तिक्तकटुकषायाम्लमधुरा रसाः। सुरभ्यसुरभी गन्धौ । शीतोष्णस्निग्धरूक्षगुरुलघु कर्कशमृदवः स्पर्शाः । छायाऽऽतपोद्योतशब्दादयः पुद्गलपरिणामा एव ।।६८।।