________________
१६३ __ परे तु, सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । साधारणाऽसाधारणाऽनुपसंहारिभेदादनैकान्तिकस्त्रिधा। तत्र साध्याभावववृत्तिः साधारणो यथा पर्वतो वह्निमान् प्रमेयत्वात् । सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणो यथा शब्दो नित्यः शब्दत्वात् । अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी यथा सर्वमभिधेयं प्रमेयत्वात् । साध्यव्यापकीभूताऽभावप्रतियोगी हेतुर्विरुद्धो यथा शब्दो नित्यः कृतकत्वात् । साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षो यथा शब्दो नित्यः श्रावणत्वात्, शब्दोऽनित्यः कार्यत्वात् । असिद्धस्त्रिविधः-आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्च । आद्यः-गगनारविन्दं सुरभि अरविन्दत्वात् । द्वितीयः शब्दो गुणश्चाक्षुषत्वात् । सोपा. धिको हेतुाप्यत्वासिद्धः। साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः। यथा पर्वतो धूमवान् वतिमत्त्वादित्यत्र आर्टेन्धनसंयोग उपाधिः सोपाधिकत्वाच्च वहिमचं व्याप्यत्वासिद्धम् । यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितो यथा वहिरनुष्णो द्रव्यत्वादिति ॥
तन्न, सत्प्रतिपक्षबाधयोरतिरिक्तहेत्वाभासत्वे मानाभावात् ॥५७॥ . ... आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । आप्तवचनं तूपचारात् ॥५८।।
अभिधेयं वस्तु यथावस्थितं यो जानीते यथाज्ञातं चाभिधत्ते स आप्तः । स द्विधा-लौकिको लोकोत्तरश्च । आद्यो जनकादि द्वितीयस्तु तीर्थकृदादिः ।।५९॥ .. 'वर्णपदवाक्यात्मकं वचनम् ।।६०॥
स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः । न त्वस्माच्छब्दादयमों बोद्धव्य इतीश्वरेच्छा शक्तिरिति । मानाभावात् ॥६१॥
सर्वत्रायं ध्वनिविधिप्रतिषेधाभ्यां स्वार्थममिदधानः सप्तभङ्गीमनुगच्छति । तद्यथा-१ स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः । २ स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः । ३ स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधिनिषेधकल्पनया तृतीयः । ४ स्यादवक्तव्यमेवेति युगपद्विधिनिषेधकल्पनया