________________
पलब्धिश्च । यथा नास्त्यत्र भूतले कुम्भः उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलम्भात् ; वस्तुजातमनेकान्तात्मकमे कान्तस्वभावानुपलम्भादिति च ॥४९॥ । ' अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥५०॥
पक्षहेतुवचनात्मकं परार्थानुमानम् । साध्यविशिष्टो धर्मी पक्षः । हेतु. प्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः । यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेरसत्यनुपपत्तेर्वा । क्वचित् पश्चावयववाक्यप्रयोगोऽपि ॥५१॥
परेषां तु पञ्चावयववाक्यमेव परार्थानुमानम् । तथा हि, पर्वतो वहिमान् , धूमवत्वात् , यो यो धूमवान् स स वह्निमान् यथां महानसं, नथा चाय, तस्मात्तथा।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । हेतुस्त्रिविधः, अन्वययतिरेकी केवलान्वयी केवलव्यतिरेकी च । तत्रान्वयेन व्यतिरेकेण च व्याप्तिमान् आद्यः, यथा वहनौ साध्ये धूमवत्वम् । अन्वयमात्रव्याप्तिको द्वितीयो, यथा घटोऽभिधेयः प्रमेयत्वात् । व्यतिरेकमात्रव्याप्तिकस्तृतीयो, यथा पृथ्वी इतरेभ्यो भिद्यते गन्धवत्त्वादिति ॥५२॥
असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥५३॥
यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः । स द्विविधः, उभयासिद्धोऽन्यतरासिद्धश्च । आद्यः-शब्दः परिणामी चाक्षुषत्वात् । द्वितीयःतरवोऽचेतना मरणरहितत्वात् ॥५४॥
साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः । यथा नित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञानादिमत्त्वात् ॥५५॥
यस्याऽन्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः ।। स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । आद्यः-शब्दो नित्यः प्रमेयत्वात् । द्वितीयःविवादापन्नः पुरुष सर्वज्ञो न भवति, वक्तृत्वात् । ॥५६॥